Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.23

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.23

Language
English

v3.c24.s36.23

द्विशालाविस्तृतं चैव त्रिभागेनैव कारयेत् ।
पूर्ववत्पुरतोऽलिन्दं त्रिभागेनैव विशालता ॥ ११० ॥ 220
वासनात्(सं च) त्रित्रिभागं स्यात् शे(च्छे)षं प्रागुक्तवन्नयेत् ।
एवं तु स्वस्तिकं प्रोक्तं मौलिकं वक्ष्यतेऽधुना ॥ १११ ॥
दशभागविशाले तु द्विभागायाममधिकम् ।
त्रिशालामध्यदेशे तु वेदांशं विस्तृताङ्गणम् ॥ ११२ ॥ 224
आयामं चाष्टभागं स्याद्देशोनाष्टतालिन्दकम् ।
तत्पृष्ठपार्श्वयोश्चैव द्वि(ह्यं)शं शालाविशालकम् ॥ ११३ ॥
द्विद्विभागेन वासं स्यात्कर्णयोश्च द्वयं त्रिकम् ।
तद्वहिः परितोऽलिन्दमेकद्वि(ह्यं)शेन मे(चै)व वा ॥ ११४ ॥ 228
पट्टवक्त्रं च समं तारं चैकद्व्यंशेन निर्गमम् ।
एकानेक तलोपेतमङ्गणे नैरृत्यवायवे ॥ ११५ ॥
एवं तु मौलिकं कुर्यात्पूर्वोक्तानां तु योग्यकम् ।
द्वादशांशा(शं) विशाले तु तस्माद् द्व्यंशाधिकायतम् ॥ ११६ ॥ 232
पुरतः पृष्ठभागे तु कुर्याद्देशेनालिन्दकम् ।
शालाकारं त्रिभागं वा पुरतो द्वारदण्डकम् ॥ ११७ ॥
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ।
सैकार्कभागविस्तारमभ्यर्धा(धिकां)शेनायतं तथा ॥ ११८ ॥ 236
पञ्चभागदशांशेन विस्तारायामतोऽङ्गणम् ।
तद्वहिः परितोऽशेन वारं शालाद्वयांशकम् ॥ ११९ ॥
तत्पृष्ठपार्श्वयोरलिन्दं चैकभागेन कारयेत् ।
शालाकारं त्रिभागं वा त्रित्रिभागेन मण्डपम् ॥ १२० ॥ 240
शालानां मध्यमे वासं तत्रिभागेन कारयेत् ।
सन्ध्ययो(न्यो)श्चाश्रयोश्चैव [तु] मण्डपं स्याच्चतुर्विधम् ॥ १२१ ॥
वासं च(सस्य) त्रयसंयुक्तं बहिर्द्वार(रा)वृतांशकम् ।
मध्ये द्वारं प्रकर्तव्यं पञ्चद्वि(ह्यं)शेन भद्रकम् ॥ १२२ ॥ 244
पृष्ठे च पार्श्वयोर्मध्ये युक्त्वा भद्रं तु योजयेत् ।
कर्णैकभद्रं स्यात् शा(च्छा)लाग्रे नेत्रभद्रकम् ॥ १२३ ॥