Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.24
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.24
- Language
- English
v3.c24.s36.24
कर्णहर्म्यादिसंयुक्तं प्रासादवदलङ्कृतम् ।
एकानेकतलोपेतं वासं वासोपरि न्यसेत् ॥ १२४ ॥
एतत्तु मौलिकं प्रोक्तं देवतानां च योग्यकम् ।
तदेव कोशे चाग्रे तु वासमध्ये तु मण्डपम् ॥ १२५ ॥
एवं तु चक्रवर्त्ती(र्ति)नां कुर्यादालयं विदुः ।
एवं तु मौलिकं प्रोक्तं वक्ष्यते चतुरालयम् ॥ १२६ ॥
विस्तारे दशभागे(गे) तु चायामे द्वादशांशकम् ।
द्विचतुर्भाग(गं) तन्मध्ये विस्तारायामतोऽङ्गनम् ॥ १२७ ॥
तद्बहिश्चावृतांशेन नन्द्यावर्त्तं चालिन्दकम् ।
तद्बहिश्च चतुःशाला तत्पूर्वादिक्रमान्न्यसेत् ॥ १२८ ॥
प्रागुदक्दक्षिणायामं दक्षिणे च ललाटकम् ।
याम्ये प्राक्प्रत्यगायामं पश्चिमे तु ललाटकम् ॥ १२६ ॥
पश्चिमे याम्यु(म्यो)दग्दीर्घं तद्वक्त्रं च तथोत्तरे ।
उदक् प्राक् पश्चिमे दीर्घं तस्य नेत्रं तु पूर्वके ॥ १३० ॥
तत्तच्छालाविशाले तु तदंशेन गुणांशकम् ।
पूर्वे च पश्चिमे शाला तत्तद्दीर्घ(दैर्घ्यं) षडंशकम् ॥ १३१ ॥
दक्षिणे चोत्तरे शाला चाष्टांशं च तथा(स्या)यतम् ।
एवमेतच्चतुःशाला दण्डकाकृतिसंयुतम् ॥ १३२ ॥
तद्बहिः परितो द्वारं चैकांशेन मे(चै)व च ।
एकद्वित्रिद्वियोगं वा नेत्रविस्तारनिर्गमम् ॥ १३३ ॥
तत्तच्छाला द्विनेत्रं(त्रा) स्याद्विद्विनेत्रैकनिर्गमम् ।
चतुर्नेत्रं बहिः पश्येत्तस्मादेवं चतुर्मुखम् ॥ १३४ ॥
अधिष्ठानादिवर्गाढ्यं प्रासादवदलङ्कृतम् ।
एकानेकतलोपेतं सर्वालङ्कारसंयुतम् ॥ १३५ ॥
एवं चतुर्मुखं प्रोक्तं नन्द्यावर्ताकृतिर्भवेत् ।
द्वादशांश(शे) विशाले तु मनुभागं तथायतम् ॥ १३६ ॥
चतुःपञ्चभागविस्तारमा(रा)यामं [च] मध्यमाङ्गणम् ।
तद्वहिश्चावृतांशेन पूर्ववत्तदलिन्दकम् ॥ १३७ ॥