Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s37.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s37.1
- Language
- English
v3.c24.s37.1
द्विजातीनां च सर्वेषां वर्णानां वासयोग्यकम् ।
गृहाणां मानविन्यासं स्थानं च वक्ष्यतेऽधुना ॥ १ ॥
ग्रामे च नगरे वापि पत्तने खेटकेऽपिवा ।
वने वा चाश्रमे वापि नद्यो(द्वयो)श्च पार्श्वके ॥ २ ॥
तेषां तु वेश्मनः स्थानं कल्पयेच्छिल्पि(ल्प)वित्तमः ।
द्वित्रिदण्डं समारभ्य द्विदण्डविवर्धनात् ॥ ३ ॥
पञ्चैैैकपङ्किदण्डान्तं पञ्चधा विपुलं भवेत् ।
पादाधिकमथाध्यर्धं पादोनं द्विगुणं तु वा ॥ ४ ॥
द्विगुणान्तं गृहायामं गृह्णीया(स्य)न्तरम्(ताराड्)धिकम् ।
दीर्घं(दैर्घ्यं) पादाधिकं दीर्घमन्त(वार्धाधिकं)पादत्रयान्तकम् ॥ ५ ॥
गृहायामसमं(त्रयं) वापि तस्मात्पादाधिकं तु वा ।
अर्धाधिक(कं) त्रिपादं चाधिक्यं वा त्रि(चतुर)गुणान्तकम् ॥ ६ ॥
गृहतारायतं ह्येवं विस्तारं गृहतारवत् ।
गृहायामविशाले तु परमशायिकपदं न्यसेत् ॥ ७ ॥
ब्रह्मस्थानं विनान्येषां सर्वेषां वासयोग्यकम् ।
आर्यो विवस्वान् मित्रं [च] भूधरश्च चतुष्टये ॥ ८ ॥
द्विजानां मुख्यहर्म्यं स्यात्कल्पयेत्तच्छ्रियावहम् ।
विवश्वि(स्व)ति पदे चैव मित्रके भूधरे तथा ॥ ६ ॥
भूपानां मुख्यवासं स्यादन्यजातेरयोग्यकम् ।
आपाद्यशामरदेशे वर्णानां वासयोग्यकम् ॥ १० ॥
इन्द्रादिषु चतुर्दिक्षु द्विजानां वासयोग्यकम् ।
यमे च वारुणे चैव भूपानां मुख्यवासकम् ॥ ११ ॥
Linked texts (1)
- Mānasāra — Sanskrit