Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s37.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s37.2

Language
English

v3.c24.s37.2

वरुणे च शशस्थाने वैश्यानां वासयोग्यकम् ।
नैर्ऋत्ये सोमे ई(शे)शे च शूद्राणां वासयोग्यकम् ॥ १२ ॥
अनलानलदेशे च सर्वेषां वासयोग्यकम् ।
उत्तरेशानपर्जन्ये सर्वेषां पचनालयम् ॥ १३ ॥
अन्तरिक्षामिपूषा (प्या) च वर्णानां कूपयोग्यकम् ।
याम्ये च नैर्ऋते वापि सर्वेषां भोजनालयम् ॥ १४ ॥
वायव्ये विप्रजातीनां देवताभोजनालयम् ।
अदिते(तौ) चेशकोणे वा पितृ(त्र्या)णां देवतार्चनम् ॥ १५ ॥
भल्लाटे च मृगे चैव द्विजानां गृहधीगृहम् ।
गन्धर्वे भृङ्गराजे वा मृगे चैवान्तरिक्षके ॥ १६ ॥
सर्वेषां भूपतीनां च महिष्य। वासयोग्यकम् ।
पुष्पदन्ते स्वकर्णे वा चायुधानां च मण्डप(योग्यक)म् ॥ १७ ॥
वरुणे चासुरे नागे मुख्ये पर्जन्यसोमके ।
वैश्यानां तु परेषां तु गृहिण्यावासयोग्यकम् ॥ १८ ॥
सत्यके चान्तरिक्षे वा सर्वेषां शयनालयम् ।
शेषे चैवासुरे चैव वरुणे वासनालयम् ॥ १९ ॥
सोमे मृगपदे चैव हेमरत्नस्य वासकम् ।
नागे चैव द्विजानां च हुत(होम)कर्मालयं भवेत् ॥ २० ॥
अदिते(तौ) सर्वजातीनां स्नपनार्थालयं भवेत् ।
तत्रैव सन्धिकार्यार्थं तद्वाह्ये चरकालयम् ॥ २१ ॥
यमे च नैर्ऋते वापि सूतकाराङ्गनं भवेत् ।
इन्द्रे चैव महेन्द्रे वा दासानामालयं तथा ॥ २२ ॥
ततश्चेशानबाह्ये तु चतुर्धा (चानुच)रालयं भवेत् ।
पूषे (ष्या) च वितथे(थे) चैव धेनोरालयमेव च ॥ २३ ॥
द्वारस्य वामपार्श्वे तु वाहनानां तद्वालयम् ।
आपश्चैवापवत्सा(त्स्ये) च बालालोकनमण्डपम् ॥ २४ ॥
ब्रह्मस्थानसमीपे तु विवाहायर्थमण्डपम् ।
इन्द्रे च इन्द्रराजे च वस्त्राच्छादनमण्डपम् ॥ २५ ॥