Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s37.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s37.4

Language
English

v3.c24.s37.4

अन्तःसालपदे रोगे नित्यान्त(र्चैन)मण्डपं न्यसेत् ।
मुख्ये (ख्यं) वासं तु सर्वेषां चोक्तवत्कारयेत्सुधीः ॥ ४० ॥
सर्वेषामपि वर्णानां स्था(स्ना)नयोग्यं द्विजन्मनाम् ।
क्षत्रियादित्रयाणां च उ(तु चो) करीत्या प्रयोजयेत् ॥ ४१ ॥
सर्वेषां देवतान्यानं मुख्यं वा कल्पयेत्सुधीः ।
प्रधाने (नं) सो (चो) पवासं च धनार्थाय भवेदिह ॥ ४२ ॥
कर्तुश्चित्तवशाद्वापि सर्वेषां तु प्रधानकम् ।
अन्यत्सालं तु सर्वेषां चैकपञ्चालयाक्रमात् ॥ ४३ ॥
अन्यत्सालं तु सर्वेषामालय pickार्थं द्विपञ्चकम् ।
भित्तिमानं तु सर्वेषां प्राकारस्योक्तवत्कुरु ॥ ४४ ॥
द्वारे च द्वारशालादिगोपुरान्तः क्रमान्न्यसेत् ।
वैश्यशूद्रगृहे द्वारं चैकादित्रितलान्तकम् ॥ ४५ ॥
कुर्यात्तु शूद्रजातीनां द्वारं शालावसानकम् ।
मुख्यादि चो (सो) पवासैश्च सर्वं प्रागुक्तवन्नयेत् ॥ ४६ ॥
यत्रैव कर्तुर्धिष्यावशतौ विमानम्
सभादिकं सकलसीमविहारकुड्यम् ।
कोशादिनीतिहयमन्दिरदन्तिशाला
कुर्यात्ततोऽन्यदखिलं नगरं च शास्त्रात् ॥ ४७ ॥