Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s37.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s37.3
- Language
- English
v3.c24.s37.3
रुद्ररुद्रजये वापि कन्यकाराशयं भवेत् ।
सावित्रे च सवित्रे वा पुत्राणां चैव वासकम् ॥ २६ ॥
मृगे च सर्वजातीनां विद्याभ्यासार्थमण्डपम् ।
तस्य बाह्यप्रदेशे तु तैलाभ्यङ्गार्थमण्डपम् ॥ २७ ॥
अन्त्ये चावरणे चैशे वास्थानमण्डपं भवेत् ।
सोमे चैव विशाला(लासा)र्थ मण्डपं कल्पयेत्ततः ॥ २८ ॥
मृगे वा मुख्यके वापि विलासी(सि)नां तदालयम् ।
पावके पूषके वाथ सत्यके वा महेन्द्रके ॥ २६ ॥
सखीनां च गृहं कुर्यात्तत्रैवानुचरालयम् ।
द्वारस्य दक्षिणे पार्श्वे रक्षकरालयं भवेत् ॥ ३० ॥
तत्रैव परिवारार्थं योधकानां तथालयम् ।
गृहक्षते यमे चैव महिषा(प्या)द्यालयं भवेत् ॥ ३१ ॥
गन्धर्वे भृङ्गराजे चन्द्रदृष्टानामात्(नां च) तदालयम् ।
मृषे वा नैर्ऋते वापि दिनादीनां गृहं भवेत् ॥ ३२ ॥
वरुणे पुष्पदन्ते वा युवराजगृहं भवेत् ।
महेन्द्रे पुष्पदन्ते वा मुख्ये वाथ गृहक्षते ॥ ३३ ॥
सर्वेषामपि वर्णानां द्वारं कुर्याद् विशेषतः ।
भूपानां मुख्यके द्वारं विना चोक्तं पुरातनैः ॥ ३४ ॥
पावके चानिले वापि धान्यकर्मोन्तमण्डपम् ।
नागे वा मुख्यके वापि धान्यागारं तु कल्पयेत् ॥ ३५ ॥
शोषे वा चासुरे वापि पुष्पमण्डपं संस्थितम् ।
चतुर्दिक्षु चतुष्कोणे सोपाया(न)स्थानमीरितम् ॥ ३६ ॥
वायवे चाथ भल्लाटे नागे वा सर्वहर्म्यके ।
कुर्यान्नृत्ताङ्गनानां च नृत्तयोग्यं तु मण्डपम् ॥ ३७ ॥
रोगस्य च पदे चैव कुक्कुटावासयोग्यकम् ।
दौवारिके च सुग्रीवे मेषवासं च कारयेत् ॥ ३८ ॥
एकं वाथ द्विसालं वा त्रिसालं वार्थं(तुर्य)भित्तिकम् ।
भूपानां पञ्चसालान्तं द्वित्रिसालमथापि वा ॥ ३६ ॥