Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s40.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s40.1

Language
English

v3.c24.s40.1

द्वारमानविधिं वक्ष्ये लक्षणं वक्ष्यतेऽधुना ।
भूसुराणां सुरादीनां वर्णानां चालयादिकम् (दिषु) ॥ १ ॥
वासं(से) वातायनादीनां कुड्यगोपुरमण्डपे ।
द्वारस्तम्भयुतं(ग्मं) सर्वद्वारमानाद् बहिर्भवेत् ॥ २ ॥
सार्धहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ।
त्रयोविंशत्युत्सेधं द्वारं सप्तकरान्तकम् ॥ ३ ॥
महद्(द्वा) द्वारमिति प्रोक्तमुपद्वारमिहोच्यते ।
एकहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ॥ ४ ॥
उपद्वार(रं) त्रिहस्तान्तं सत्ता(प्त)दशविधोदयम् ।
द्वादशाङ्गुलमारभ्य त्रित्रिमात्राविवर्धनात् ॥ ५ ॥
वातायन(नं) द्विहस्तान्त(न्तं) त्रयोदशविधोदयम् ।
क्षुद्रद्वारोदय ह्येवं तद्विस्तारमिहोच्यते ॥ ६ ॥
सर्वेषां द्वारतुङ्गाधं क्षुद्रद्वारं(र) विशालकम् ।
अथवा द्वारमुख्यानां हर्म्यपादमिहो(वशादु)च्यते ॥ ७ ॥
तत्तत्पादोदये वाथ वसुनन्ददशांशकैः ।
तत्तदेकांशहीनं स्याद् द्वारतुङ्गममिति स्मृतम् ॥ ८ ॥
तदर्धं विस्तृतं प्रोक्तमथ हर्म्यवशो(शादु)च्यते ।
सत्रिपादकरा(रमा) रभ्य षट्षडङ्गुलवर्धनात् ॥ ६ ॥
सत्रिपादत्रिहस्तान्तं कन्यसादि नवोदयम् ।
एवं तु क्षुद्रहर्म्ये तु मुख्ये (ख्यं) द्वारं प्रकल्पयेत् ॥ १० ॥
द्विहस्तं तु समारभ्य षट्षडङ्गुलवर्धनात् ।
चतुर्हस्तावसाने स्यात्कन्यसादि त्रयं त्रयम् ॥ ११ ॥

Linked texts (1)