Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s40: द्वारमानविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s40

Language
English

द्वारमानविधानम्

v3.c24.s40.1

द्वारमानविधिं वक्ष्ये लक्षणं वक्ष्यतेऽधुना ।
भूसुराणां सुरादीनां वर्णानां चालयादिकम् (दिषु) ॥ १ ॥
वासं(से) वातायनादीनां कुड्यगोपुरमण्डपे ।
द्वारस्तम्भयुतं(ग्मं) सर्वद्वारमानाद् बहिर्भवेत् ॥ २ ॥
सार्धहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ।
त्रयोविंशत्युत्सेधं द्वारं सप्तकरान्तकम् ॥ ३ ॥
महद्(द्वा) द्वारमिति प्रोक्तमुपद्वारमिहोच्यते ।
एकहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ॥ ४ ॥
उपद्वार(रं) त्रिहस्तान्तं सत्ता(प्त)दशविधोदयम् ।
द्वादशाङ्गुलमारभ्य त्रित्रिमात्राविवर्धनात् ॥ ५ ॥
वातायन(नं) द्विहस्तान्त(न्तं) त्रयोदशविधोदयम् ।
क्षुद्रद्वारोदय ह्येवं तद्विस्तारमिहोच्यते ॥ ६ ॥
सर्वेषां द्वारतुङ्गाधं क्षुद्रद्वारं(र) विशालकम् ।
अथवा द्वारमुख्यानां हर्म्यपादमिहो(वशादु)च्यते ॥ ७ ॥
तत्तत्पादोदये वाथ वसुनन्ददशांशकैः ।
तत्तदेकांशहीनं स्याद् द्वारतुङ्गममिति स्मृतम् ॥ ८ ॥
तदर्धं विस्तृतं प्रोक्तमथ हर्म्यवशो(शादु)च्यते ।
सत्रिपादकरा(रमा) रभ्य षट्षडङ्गुलवर्धनात् ॥ ६ ॥
सत्रिपादत्रिहस्तान्तं कन्यसादि नवोदयम् ।
एवं तु क्षुद्रहर्म्ये तु मुख्ये (ख्यं) द्वारं प्रकल्पयेत् ॥ १० ॥
द्विहस्तं तु समारभ्य षट्षडङ्गुलवर्धनात् ।
चतुर्हस्तावसाने स्यात्कन्यसादि त्रयं त्रयम् ॥ ११ ॥

v3.c24.s40.2

एवं तु मध्यहर्म्ये तु मुख्यं(ख्य)द्वारोदयं भवेत् ।
सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ॥ १२ ॥
सार्धवेहकरान्तं स्यात्कन्यसादि नवोदयम् ।
मुख्यद्वारमिति प्रोक्तं मुख्यहर्म्ये तु योजयेत् ॥ १३ ॥
सप्तविंशोद्दयं ह्येषं तदर्धं विस्तृतं भवेत् ।
एवं जातिवशात्प्रोक्तं छन्दादीनां प्रवक्ष्यते ॥ १४ ॥
पञ्चविंशाङ्गुला (लम) रभ्य द्वयङ्गुलविवर्धनात् ।
त्रयोविंशशतान्तं स्याच्छन्दद्वारविशालकम् ॥ १५ ॥
एकविंशाङ्गुला(लमा)रभ्य द्वयङ्गुलविवर्धनात् ।
एकविंशं शवान्तं स्याद्विकल्पद्वारविस्तृतम् ॥ १६ ॥
नवपञ्चत्यङ्गुला (लमा) रभ्य द्व्यङ्गुलविवर्धनात् ।
एकपञ्चक्तङ्गुलाधिक्यं शतान्तमाभासविस्तृतम् ॥ १७ ॥
विस्ताराद् द्विगुणोत्सेधं सामान्यमिति कथ्यते ।
द्विगुणात्पादमाधिक्यमर्धाधिकमथापि वा ॥ १८ ॥
तदुत्सेधं नवांशं स्यात्पञ्चाशाद्(च्चांशं) द्वारविस्तृतम् ।
आयादिकर्मषड्वर्गप्रवाहं (हो) वक्ष्यतेऽधुना ॥ १९ ॥
जातिद्वारोदये सर्वेषा (र्वेसिना)यादिसंग्रहं भवेत् ।
छन्दादीनां तु सर्वेषां तारे चायादिसंग्रहम् ॥ २० ॥
वृद्धिहान्यादिसर्वेषां प्रासादेस्योक्तवद् भवेत् ।
कन्यसे कन्यसा मानं मध्यमे मध्यमं तथा ॥ २१ ॥
मुख्यं मुख्यं तु मानं स्यात्कुर्याद् द्वारं शुभावहम् ।
हीनाधिकमानं चेत् श्रे(ष्ठे) ष्ठकन्यसमानकम् ॥ २२ ॥
तद्द्वयोर्मध्यमं चोक्तं मध्यमे तद्द्वयं तु वा ।
सर्वेषामपि वर्णानां सर्वसंपद्विनाशनम् ॥ २३ ॥
शान्तिकादि तथाहर्म्यं द्वारं तच्छान्तिकादिकम् ।
कुर्यादारोग्यमायुष्यं भुक्तिमुक्तिफलप्रदम् ॥ २४ ॥
विपरीते नृपादीनां विपत्यं(त्तिं) नित्यमावहेत् ।
द्वारमानमिति प्रोक्तं पादादीन्वक्ष्यतेऽधुना ॥ २५ ॥

v3.c24.s40.3

शुद्धद्वारस्य परितः पादोदर्क(य) द्वार [सं] युतम् ।
भौमान्तं वा (स्वा) तपादं वा चोत्तरान्तमथापि वा ॥ २६ ॥
द्वारयोगस्य मूलाग्रे छिद्रं कुर्याद् द्वयोर्द्वयम् ।
पट्टिकाद्वयमूलाग्रे शिलायुक्ता (क्त) द्वारं योजयेत् ॥ २७ ॥
दारुद्वारमिति प्रोक्तं शिलाभद्रं तु योजयेत् ।
कुड्यद्वारा (रस) र्द्धमार्ग स्यात्तद्बाह्ये पञ्चभागिकम् ॥ २८ ॥
अन्तः सप्तांशयोर्मध्ये द्वारयोगस्य मध्यमे(मम) ।
तदंश (शे) त्रिचतुर्भागं पञ्चषट्समभागिकम् ॥ २६ ॥
अष्टांशं योगविस्तारं तदर्थं बहलं भवेत् ।
विस्तारस्य समं वापि त्रिपादं वाथ कल्पयेत् ॥ ३० ॥
पट्टिकोच्चायतं तारं घनं द्वारस्य योग्यकम् ।
द्वारयोगद्वयं चैव पट्टिकाद्वयमेव वा ॥ ३१ ॥
चतुरश्रं समाश्रं वा भूषवालङ्कृतं तु वा ।
योगादिघनमानं च कृत्वा बाह्ये नवांशकम् ॥ ३२ ॥
कुड्यान्ते पट्ट(दृं) बन्धां(न्ध्यं) शं तस्माद् द्वंशेन बन्धनम् ।
एकेन कम्पपट्टं स्याद्वन्धभागेन योजयेत् ॥ ३३ ॥
अथवांशेन पट्टं स्यात्तद्वा (द्यं) मध्यैऽर्धभागिकम् ।
अर्धेन कम्पसंयुक्तं कर्णबन्धांशमीरितम् ॥ ३४ ॥
कम्पमर्धेन (पद्ममध्येन) संयुक्तं चान्त्यं चेदलं भवेत् ।
एकांशं बाह्यपट्टं स्याद् द्वंशं भुवाङ्गकम् ॥ ३५ ॥
पद्मा (द्यं) द्वयंशकं चैव कम्पमेकेन कारयेत् ।
मध्यभुवाङ्गं युग्मांशं बाह्यपद्मं द्वयांशकम् ॥ ३६ ॥
पट्टिकायोगबाह्ये तु द्वारांशं परितोऽन्वितम् ।
अथवा भूषणं तु स्यात्कुर्यात्स्वध पट्टिका [म्] ॥ ३७ ॥
द्वारयोगविशाले तु कर्णं वा द्विगुणं तु वा ।
योगमूलाग्रतुङ्गं स्यात् अ(द) ग्रे विन्यास (न्यसेत्) कुम्भलम् ॥ ३८ ॥
सर्वालङ्कारसंयुक्तं पत्रवल्ल्यादिभूषितम् ।
द्वारोर्ध्वे मध्यदेशे तु अ (चा) घिराजो (जमु) परि न्यसेत् ॥ ३६ ॥

v3.c24.s40.4

तत्पार्श्वे चाचरादन्त(नुचरान्ते) द्विपयुग्मं तु कारयेत् ।
दक्षिणे तु गणेशं स्याद्वामभागे सरस्वतीम् ॥ ४० ॥
छत्रचामरसंयुक्तं तोरणादिविभूषितम् ।
तस्याधो(धः) पूर्णकुम्भाद्यैः दर्पणायैर्विभूषितम् ॥ ४१ ॥
कुर्यादेवं तु रक्षार्थं सम्पदामास्पदं सदा ।
अथवा द्वारयोगस्य विशालं वक्ष्यतेऽधुना ॥ ४२ ॥
त्रिचतुष्पञ्चषण्मात्रं तस्मात्तु अङ्गुलाधिकम् ।
पञ्चविंशाङ्गुलान्तञ्च(न्तं च) चतुर्विंशाङ्गुलान्तकम् ॥ ४३ ॥
एकविंशाङ्गुलान्तं स्याद् द्वाविंशाङ्गुल(ला)न्तकम् ।
त्रयोविंशाङ्गुलान्ते स्याद् द्वारयोगस्य विस्तृतम् ॥ ४४ ॥
अथवा हस्तमारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
तन्त्रिहस्तावसाने स्यात्कन्यसाद्युक्तमानकम् ॥ ४५ ॥
दारुकै तु शिला(ले) वापि कुर्याद् द्वारं विचक्षणः ।
क्षुद्रविस्तार(रं) सर्वेषां द्वारयोगविशालकम् ॥ ४६ ॥
द्वारमाने तु सर्वेषां वर्णानां हर्म्यके न्यसेत् ।
देवानां हर्म्यके कुर्यात्तत्र दोषो न विद्यते ॥ ४७ ॥
द्वारमूर्ध्नवशार्धं स्याद् द्वारमानेन कल्पयेत् ।
तद्विशालायततुल्यं कवाटायामविस्तृतम् ॥ ४८ ॥
एकद्वित्रिचतुष्पञ्च कवाटस्य घने भवेत् ।
एकं वा द्विकवाटं वा युत्क्त्वा तत्रैव योजयेत् ॥ ४६ ॥
युग्मदारु न योग्यं स्यादयुग्मं चैव योजयेत् ।
युगल तत्कवाटं स्याद् दारुयुग्मं प्रयोजयेत् ॥ ५० ॥
दक्षिणस्य कवाटं तु विशालाधिकमायतम् ।
एकद्वित्र्यङ्गुलं वामकवाटं स्याद् द्विहस्त(विहीन)कम् ॥ ५१ ॥
तत्समग्रं शिखं तारं तद्दृढ्यं तस्य तुङ्गकम् ।
वृत्ताकारं(रा) शिखा सर्वा मूलोद्भववृचा(कचं) भवेत् ॥ ५२ ॥
मध्ये तु क्षेपर्ण वामे(ध) शुद्धद्वारावसानकम् ।
त्रिचतुष्पञ्चषण्मात्रं मध्ये क्षेपञ्चविस्तृतम् ॥ ५३ ॥

v3.c24.s40.5

युग्मवेदकुमाराष्टपङ्क्त्यंशं द्वादशांशकम् ।
कुर्यात्कवाटदीर्घे(दैर्घ्ये) क्षेपशं विस्तृते (स्तारोऽ)धिकम् ॥ ५४ ॥
त्रिचतुष्पञ्चा(ष्षड्)ङ्गुलं वा[पि] तस्य विस्तार(रं) मानयेत् ।
शुद्धद्वारसमायामे विस्तारे परिकल्पयेत् ॥ ५५ ॥
आयदण्ड (ण्डं) त्रिधापञ्चसप्तकाकृतमेव च ।
दीर्घं ह्रस्वं च सर्वेषामिदं युक्त्या प्रयोजयेत् ॥ ५६ ॥
सन्धिमध्ये तु वेदाश्रं पट्टिकानां तु पादयुक् ।
पद्मपत्रादि सर्वेषां युक्त्या च समलङ्कृतम् ॥ ५७ ॥
प्राकारे च महाद्वारं क्षुद्रद्वारं कवाटके ।
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ५८ ॥
पञ्चविंशाङ्गुलायामं त्रिचतुर्था(र)ङ्गुलं ततिः ।
तदर्धं तद्घनं कुर्यात्त्रिचतुष्पञ्चाङ्गुलोन्नतम् ॥ ५९ ॥
कीलभाजनमित्युक्तं कीलनं तु प्रवक्ष्यते ।
भाजनायामवत्कुर्यात्कीलायामं यथोक्तवत् ॥ ६० ॥
एकद्वित्र्यङ्गुलं वापि कीलतारं यथेष्टकम् ।
कवाटयुक्तं (क्तं) तच्चैकं चेद् द्वारदक्षिणपार्श्वके ॥ ६१ ॥
द्वारपादे पदे (यथा) वापि योजयेत्कीलभाजनम् ।
पर्वयुक्तकीलूलाग्रे भाजने छिद्रं योजयेत् ॥ ६२ ॥
अयस्कीलं च पट्टं च पद्मपत्रादिशोभितम् ।
कुर्यात्तत्तत्कवाटानां युक्त्या तत्कीलशूलकं ॥ ६३ ॥
यथाबलं यथाशोभं तथा युञ्जीत बुद्धिमान् ।
द्वारोर्ध्वे नूपुरार्थं च कुर्यात्तच्छिद्रपट्टिका [म्] ॥ ६४ ॥
कवाटस्योर्ध्वशूलं च तत्तच्छिद्रे प्रवेशयेत् ।
अन्तरद्वारं (राणां) तु (चैव) कवाटं चैव योजयेत् ॥ ६५ ॥
कीलं च भाजनं चैव कवाटयुग्मं तु योजयेत् ।
कवाटायामविस्तारे मध्ये छिद्रं तु युग्मतः ॥ ६६ ॥
छिद्रयोर्मध्यं [च] तस्योर्ध्वतः कीलं तदन्योऽन्यं निवेशयेत् ।
एवं युक्त्या कवाटं च सव्यासव्यं तु योजयेत् ॥ ६७ ॥

v3.c24.s40.6

देवानां मूलहर्म्ये तु कवाटाधिक्यवामके ।
सर्वेषामालये चान्तं यथेष्टं स्थापयेत्सुधीः ॥ ६८ ॥
उक्तवत्स्थापयेद् द्वारं स्थपतिः स्थापकैः सह ।
देवानां हर्म्यके सर्वं मध्यद्वारं तु जालकम् ॥ ६९ ॥
द्विजातीनां च वर्णानां गृहे वातायने बुधः ।
मध्यस्तम्भं यथायुक्त्याकारं यत्तु यथेष्टकम् ॥ ७० ॥
देवानां भूसुरादीनां वर्णानां च गृहे गृहे ।
द्वारपट्टिकाया मानं लक्षणं वक्ष्यतेऽधुना ॥ ७१ ॥
द्वारस्य पुरतो देशे द्वारमध्ये सभद्रकम् ।
एकभाग(गं) द्विभागं वा निर्गमं पट्टिका भवेत् ॥ ७२ ॥
एकत्रिपञ्चभागेन पट्टिकाविस्तृतं भवेत् ।
विस्तारं(र)द्विगुणं वापि पादोने द्विगुणं तु वा ॥ ७३ ॥
विस्तारांशाधिकं वापि तद्द्वारं(र)पट्टिकोदयम् ।
तुङ्गे चाष्टांशकं कृत्वा चैकभागं मसूरकम् ॥ ७४ ॥
तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
तत्समं ग्रीवतुङ्गं स्यान् शि(च्छि)रतु(स्तु)ङ्गं द्वयांशकम् ॥ ७५ ॥
तदर्धं स्तूपितुङ्गं स्यात् शा(च्छा)लाकारं शिरो भवेत् ।
अथवा नासिकाकारं कुर्याद् भित्ति(स्या) सहैव च ॥ ७६ ॥
षड्वर्गमिति प्रोक्तं च चतुर्वर्गमिहोच्यते ।
तुङ्गे षडंशकं(के) कृत्वा ए(चै)का[ङ्गे] ह्येकवेदिका ॥ ७७ ॥
पादं शिरः शिखा प्रोक्तं शेषं प्रागुक्तवन्नयेत् ।
सर्वालङ्कारसंयुक्तमेवमुक्तं पुरातनैः ॥ ७८ ॥
अज्ञानाद् विपरीतं चेत्सर्वसम्पद्विनाशनम् ॥ ७९ ॥
एवं द्वारं तैत(ति)लानां द्विजानाम्
भूपानं चैव वैश्यकानां परेषाम् ।
मानं यत्तच्चोक्तवद्धर्म्यदेशे
कुर्यात्सर्वसम्पदास्पदं स्यात् ॥ ८० ॥

v3.c24.s40.7

इति मानमारे वास्तुशास्त्रे द्वारमानविधानं नाम एकोनचत्वारिंशोऽध्यायः ॥

Linked texts (1)