Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s40.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s40.2
- Language
- English
v3.c24.s40.2
एवं तु मध्यहर्म्ये तु मुख्यं(ख्य)द्वारोदयं भवेत् ।
सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ॥ १२ ॥
सार्धवेहकरान्तं स्यात्कन्यसादि नवोदयम् ।
मुख्यद्वारमिति प्रोक्तं मुख्यहर्म्ये तु योजयेत् ॥ १३ ॥
सप्तविंशोद्दयं ह्येषं तदर्धं विस्तृतं भवेत् ।
एवं जातिवशात्प्रोक्तं छन्दादीनां प्रवक्ष्यते ॥ १४ ॥
पञ्चविंशाङ्गुला (लम) रभ्य द्वयङ्गुलविवर्धनात् ।
त्रयोविंशशतान्तं स्याच्छन्दद्वारविशालकम् ॥ १५ ॥
एकविंशाङ्गुला(लमा)रभ्य द्वयङ्गुलविवर्धनात् ।
एकविंशं शवान्तं स्याद्विकल्पद्वारविस्तृतम् ॥ १६ ॥
नवपञ्चत्यङ्गुला (लमा) रभ्य द्व्यङ्गुलविवर्धनात् ।
एकपञ्चक्तङ्गुलाधिक्यं शतान्तमाभासविस्तृतम् ॥ १७ ॥
विस्ताराद् द्विगुणोत्सेधं सामान्यमिति कथ्यते ।
द्विगुणात्पादमाधिक्यमर्धाधिकमथापि वा ॥ १८ ॥
तदुत्सेधं नवांशं स्यात्पञ्चाशाद्(च्चांशं) द्वारविस्तृतम् ।
आयादिकर्मषड्वर्गप्रवाहं (हो) वक्ष्यतेऽधुना ॥ १९ ॥
जातिद्वारोदये सर्वेषा (र्वेसिना)यादिसंग्रहं भवेत् ।
छन्दादीनां तु सर्वेषां तारे चायादिसंग्रहम् ॥ २० ॥
वृद्धिहान्यादिसर्वेषां प्रासादेस्योक्तवद् भवेत् ।
कन्यसे कन्यसा मानं मध्यमे मध्यमं तथा ॥ २१ ॥
मुख्यं मुख्यं तु मानं स्यात्कुर्याद् द्वारं शुभावहम् ।
हीनाधिकमानं चेत् श्रे(ष्ठे) ष्ठकन्यसमानकम् ॥ २२ ॥
तद्द्वयोर्मध्यमं चोक्तं मध्यमे तद्द्वयं तु वा ।
सर्वेषामपि वर्णानां सर्वसंपद्विनाशनम् ॥ २३ ॥
शान्तिकादि तथाहर्म्यं द्वारं तच्छान्तिकादिकम् ।
कुर्यादारोग्यमायुष्यं भुक्तिमुक्तिफलप्रदम् ॥ २४ ॥
विपरीते नृपादीनां विपत्यं(त्तिं) नित्यमावहेत् ।
द्वारमानमिति प्रोक्तं पादादीन्वक्ष्यतेऽधुना ॥ २५ ॥