Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s40.6
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s40.6
- Language
- English
v3.c24.s40.6
देवानां मूलहर्म्ये तु कवाटाधिक्यवामके ।
सर्वेषामालये चान्तं यथेष्टं स्थापयेत्सुधीः ॥ ६८ ॥
उक्तवत्स्थापयेद् द्वारं स्थपतिः स्थापकैः सह ।
देवानां हर्म्यके सर्वं मध्यद्वारं तु जालकम् ॥ ६९ ॥
द्विजातीनां च वर्णानां गृहे वातायने बुधः ।
मध्यस्तम्भं यथायुक्त्याकारं यत्तु यथेष्टकम् ॥ ७० ॥
देवानां भूसुरादीनां वर्णानां च गृहे गृहे ।
द्वारपट्टिकाया मानं लक्षणं वक्ष्यतेऽधुना ॥ ७१ ॥
द्वारस्य पुरतो देशे द्वारमध्ये सभद्रकम् ।
एकभाग(गं) द्विभागं वा निर्गमं पट्टिका भवेत् ॥ ७२ ॥
एकत्रिपञ्चभागेन पट्टिकाविस्तृतं भवेत् ।
विस्तारं(र)द्विगुणं वापि पादोने द्विगुणं तु वा ॥ ७३ ॥
विस्तारांशाधिकं वापि तद्द्वारं(र)पट्टिकोदयम् ।
तुङ्गे चाष्टांशकं कृत्वा चैकभागं मसूरकम् ॥ ७४ ॥
तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
तत्समं ग्रीवतुङ्गं स्यान् शि(च्छि)रतु(स्तु)ङ्गं द्वयांशकम् ॥ ७५ ॥
तदर्धं स्तूपितुङ्गं स्यात् शा(च्छा)लाकारं शिरो भवेत् ।
अथवा नासिकाकारं कुर्याद् भित्ति(स्या) सहैव च ॥ ७६ ॥
षड्वर्गमिति प्रोक्तं च चतुर्वर्गमिहोच्यते ।
तुङ्गे षडंशकं(के) कृत्वा ए(चै)का[ङ्गे] ह्येकवेदिका ॥ ७७ ॥
पादं शिरः शिखा प्रोक्तं शेषं प्रागुक्तवन्नयेत् ।
सर्वालङ्कारसंयुक्तमेवमुक्तं पुरातनैः ॥ ७८ ॥
अज्ञानाद् विपरीतं चेत्सर्वसम्पद्विनाशनम् ॥ ७९ ॥
एवं द्वारं तैत(ति)लानां द्विजानाम्
भूपानं चैव वैश्यकानां परेषाम् ।
मानं यत्तच्चोक्तवद्धर्म्यदेशे
कुर्यात्सर्वसम्पदास्पदं स्यात् ॥ ८० ॥