Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s40.5

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s40.5

Language
English

v3.c24.s40.5

युग्मवेदकुमाराष्टपङ्क्त्यंशं द्वादशांशकम् ।
कुर्यात्कवाटदीर्घे(दैर्घ्ये) क्षेपशं विस्तृते (स्तारोऽ)धिकम् ॥ ५४ ॥
त्रिचतुष्पञ्चा(ष्षड्)ङ्गुलं वा[पि] तस्य विस्तार(रं) मानयेत् ।
शुद्धद्वारसमायामे विस्तारे परिकल्पयेत् ॥ ५५ ॥
आयदण्ड (ण्डं) त्रिधापञ्चसप्तकाकृतमेव च ।
दीर्घं ह्रस्वं च सर्वेषामिदं युक्त्या प्रयोजयेत् ॥ ५६ ॥
सन्धिमध्ये तु वेदाश्रं पट्टिकानां तु पादयुक् ।
पद्मपत्रादि सर्वेषां युक्त्या च समलङ्कृतम् ॥ ५७ ॥
प्राकारे च महाद्वारं क्षुद्रद्वारं कवाटके ।
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ५८ ॥
पञ्चविंशाङ्गुलायामं त्रिचतुर्था(र)ङ्गुलं ततिः ।
तदर्धं तद्घनं कुर्यात्त्रिचतुष्पञ्चाङ्गुलोन्नतम् ॥ ५९ ॥
कीलभाजनमित्युक्तं कीलनं तु प्रवक्ष्यते ।
भाजनायामवत्कुर्यात्कीलायामं यथोक्तवत् ॥ ६० ॥
एकद्वित्र्यङ्गुलं वापि कीलतारं यथेष्टकम् ।
कवाटयुक्तं (क्तं) तच्चैकं चेद् द्वारदक्षिणपार्श्वके ॥ ६१ ॥
द्वारपादे पदे (यथा) वापि योजयेत्कीलभाजनम् ।
पर्वयुक्तकीलूलाग्रे भाजने छिद्रं योजयेत् ॥ ६२ ॥
अयस्कीलं च पट्टं च पद्मपत्रादिशोभितम् ।
कुर्यात्तत्तत्कवाटानां युक्त्या तत्कीलशूलकं ॥ ६३ ॥
यथाबलं यथाशोभं तथा युञ्जीत बुद्धिमान् ।
द्वारोर्ध्वे नूपुरार्थं च कुर्यात्तच्छिद्रपट्टिका [म्] ॥ ६४ ॥
कवाटस्योर्ध्वशूलं च तत्तच्छिद्रे प्रवेशयेत् ।
अन्तरद्वारं (राणां) तु (चैव) कवाटं चैव योजयेत् ॥ ६५ ॥
कीलं च भाजनं चैव कवाटयुग्मं तु योजयेत् ।
कवाटायामविस्तारे मध्ये छिद्रं तु युग्मतः ॥ ६६ ॥
छिद्रयोर्मध्यं [च] तस्योर्ध्वतः कीलं तदन्योऽन्यं निवेशयेत् ।
एवं युक्त्या कवाटं च सव्यासव्यं तु योजयेत् ॥ ६७ ॥