Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.1
- Language
- English
v3.c24.s44.1
देवभूसुरभूपानामारोहार्थं तु(च्छाथ) योग्यकम् ।
रथमानं क्रमाद् वक्ष्ये लक्षणं विधिना सह ॥ १ ॥
चक्रं चैव रथाकारं रथमानं च भूषणम् ।
त्रिवितस्तिं समारभ्य षट्षडङ्गुलवर्धनात् ॥ २ ॥
पञ्चहस्तावसानं स्यात्पञ्चा(चा)दशविशालकम् ।
वितस्तिद्वयमारभ्य वितस्त्येके(स्त्यर्धे)न वर्धनात् ॥ ३ ॥
सार्धवेष्टकरान्तं स्यात्पूर्ववत्संख्यया चेति ।
एवं तु चक्रविस्तारं देवभूसुरभूपतेः ॥ ४ ॥
अङ्गुलद्वयमारभ्य ए(चै)कैकाङ्गुलवर्धनात् ।
सप्ता(प्त)दशाङ्गुलान्तं स्याद् घनं पञ्चा(ञ्च)दशस्त(त)था ॥ ५ ॥
चक्रं वृत्ताकृतिं कुर्याद्युक्त्याद्य पट्ट(ट्टे) योजितम् ।
विस्तारं च त्रिधा कृत्वा मध्ये कुर्यांशकेन तु ॥ ६ ॥
तन्मध्ये तु त्रिमात्राद्यै सप्ता(प्त)दशाङ्गुलान्तकम् ।
पञ्चा(ञ्च)दर्शं च विपुलं नाभिकुक्षस्य(क्षेर्) वेशनम् ॥ ७ ॥
छिद्रं वृत्ताकृतिं ह्येव वृत्ताश्रं वाथ कुक्षिकम् ।
त्रिमात्रं पूर्ववद्वृद्ध्या सप्ता(प्त)दशाङ्गुलान्तकम् ॥ ८ ॥
पञ्चा(ञ्च)दशविधि(धिः) प्रोक्तमे(मृचै)वं कुक्षिविनिर्गतम् ।
अन्तर्बहिश्च कुक्षिः स्यात्सर्वालङ्कारसंयुतम् ॥ ६ ॥
वितस्तित्रयमारभ्य षट्षडङ्गुलवर्धनात् ।
पञ्चहस्तावसाने स्यात्सशिखाक्षायतं तथा ॥ १० ॥
शिखां विनायतं वापि चैकमेकादशायतम् ।
पञ्चाङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ११ ॥