Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.2

Language
English

v3.c24.s44.2

एकविंशाङ्गुलान्तं स्यान्नवधा चाक्षविस्तृतम् ।
सप्ताङ्गुलं समारभ्य द्विड्ढ्यङ्गुलविवर्धनात् ॥ १२ ॥
त्रयोविंशाङ्गुलान्तं स्याच्चाक्षोत्सेधं तु पूर्ववत् ।
शिखाश्च(च)क्रतारं(काकारं) तुल्यं तारं युक्त्यायसं तथा ॥ १३ ॥
शालजम्बूकसारं च सरलं बकुळार्जुनम् ।
मधुकं तिन्त्रिणी चैव वर्वं(बर्बूं)रद्रुममेव च ॥ १४ ॥
व्याघ्री च चीरिणी चैव खादिरं कृकरं शमी ।
एवं चक्रादिदारुभ्यो(भिः) युक्त्या बलवशान्यसेत् ॥ १५ ॥
दन्ततारे चतुष्पञ्चभागैकं शल्यविस्तृतम् ।
समं वाब्य(व्य)र्धमेवं वा द्वयं तिर्यंगतायतम् ॥ १६ ॥
दन्तधा(ता)रसमाधिक्यं कीलायाममुदीरितम् ।
कुर्याद् दन्ताग्रके छिद्रं युक्त्या कीलं प्रयोजयेत् ॥ १७ ॥
अक्षोपरि तथाता(धा)रं मानं चाप्यथ वक्ष्यते ।
सार्धहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ॥ १८ ॥
पञ्चहस्तान्तविस्तारं भा' पत्ता(चा)दृशं भवेत् ।
विस्तारद्विगुणान्तं च तत्पादांशेन वर्धनात् ॥ १६ ॥
पुरं पृष्ठाsub-line(य)तं ज्ञेयं नवमानमुदीरितम् ।
त्रिचतुष्पञ्चषट्सप्तसा(प्ता)ष्टनन्ददशाङ्गुलम् ॥ २० ॥
एतत्तु भारयुक्तं स्यात्क्षुद्रे तु द्वयमेव च ।
मुखे पृष्ठे पट्टके स्यात्कुर्यादुक्तविशालवत् ॥ २१ ॥
सर्वेषां च रथाधारं दारुविस्तारमेव च ।
तत्पञ्चांशेनवृद्धिः स्याद् द्विगुणान्तं तथोदयम् ॥ २२ ॥
रथाधारोदये देशे चोपधारं प्रयोजयेत् ।
भारायामे चतुष्पञ्चषट्सप्तांशविभाजिते ॥ २३ ॥
एकैकांशविहीनं स्यात् शे(श्ले)षशेनायतं तथा ।
रथाधारसमुत्सेधं विस्तारस्याधिकं तथा ॥ २४ ॥
पादमर्धं त्रिपादं च तत्समं चाधिकोदयम् ।
दारुतारसमं कुर्यात्सर्व्वाङ्कारसंयुतम् ॥ २५ ॥