Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.6
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.6
- Language
- English
v3.c24.s44.6
महोत्सवरथानां च सर्वेषां चक्र(क्रं) वर्त्तते ।
षट्सप्ताष्टनवं वापि दशचक्रं क्रमाद् विदुः ॥ ६७ ॥
युद्धयोग्यं त्रिकं वेदि मन्त्रा (न्त्रा) र्थं द्वयमेव वा ।
नित्योत्सवस्थाश्रो (शस्त्यै) कद्वित्रिवेदि प्रकल्पयेत् ॥ ६८ ॥
महोत्सवरथे वेदि त्रितयादि नवान्तकम् ।
कल्पयेत्सार्वभौमस्य चैव नवश्रे (चे) ति वेदिका ॥ ६६ ॥
महाराजे(जस्य) सप्तकान्तमेकादि [च] प्रकल्पयेत् ।
नरेन्द्रारव्यनृपतेः(तेश्चैव) पञ्चाकादि योजयेत् ॥ ७० ॥
पार्णिकाल्पस्य भूपानामेकादि चतुरान्तकम् ।
विष्णोरथस्त्र्यकस्यापि चैकाषो (दि) नववेदिकाः ॥ ७१ ॥
बौद्धादिजिनकान्तानां सप्तन्तं चैकादितः (कम्) ।
अन्येषामपि देवानां वेदी (देवी) नां वेदसंख्यिकम् ॥ ७२ ॥
एकादिपञ्चसंख्यान्तं कुर्याच्छिल्पिवरैर (वरोऽ)पि ।
रथानामूर्ध्वदेशस्य चालङ्कारं प्रवक्ष्यते ॥ ७३ ॥
मानं यथायुक्तिवशादेकद्वित्रितलं तु वा ।
कुर्याद् देवरथानां तु शेषमागमतो (मो) क्तवत् ॥ ७४ ॥
अ(र) धाधो गुरुपादसरोरुहम्
गुरुव' च षण्मुखं सरस्वतीम् ।
गणपतिं त्वथ शङ्करवल्लभां
विविधवाहनवस्त्रविभूषितान् ॥ ७५ ॥
अथ रथाभरणं परिकथ्यते
शिखिशिखण्डकचामरतारणम् ।
विविधकिङ्किणीनिर्मलदर्पणम्
व्यजनकैतुकमाल्यमनोहरम् ॥ ७६ ॥
आदौ रथस्य तक्षतोऽपि भुवंरवेश्या
लास्याङ्गना सकलभावन(ना) सम्यक् वि(ग्वि)वस्वाम् ।
अत्युच्चमर्दलनिखन (नं) धार्य
चोध्र्वेऽथैमल्पमरुतं मन्ने(गगने) दधानाम् ॥ ७७ ॥