Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.5
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.5
- Language
- English
v3.c24.s44.5
चतुर्दिक्षु चतुर्भद्रं स्यात् त्रिद्व्यैकर्हारं तु वा ।
भद्रमध्ये तु भद्रं स्याच्चोक्तवत्कारयेत्सुधीः ॥ ५३ ॥
युक्त्वा च भद्रं सर्वेषां नासिकायुक्तमेव वा ।
पक्षे च कुङ्मलं युक्तं वक्त्राणां (नि) तु सुयोजयेत् ॥ ५४ ॥
पूर्वोक्तरथनामानि चाधुना [तु] प्रवक्ष्यते ।
नभस्वान्भद्रकं चैव भद्रं स्यात्प्रभञ्जनम् ॥ ५५ ॥
निवाताख्यं भद्रकं चैव पवनाख्यं च भद्रकम् ।
पृषद(तं) चेन्द्रकं चैवमनिलाख्यं च भद्रकम् ॥ ५६ ॥
एतानि रथनामानि चाश्रयुक्तं रथे विदुः ।
नभस्वान्भद्रं वेदाश्रं प्रभञ्जनं षडश्रकम् ॥ ५७ ॥
वाताख्यं द्विभद्रं स्यात्पवनाख्यं त्रिभद्रकम् ।
पृषतं चेन्द्रकाख्यं स्याद् दशाश्रं भद्रसंयुतम् ॥ ५८ ॥
द्वादशं(श) भद्रसंयुक्तमनिलाख्यमुदीरितम् ।
केचित्तु युक्तमेवं वा षष्टाश्रं रथमेव वा ॥ ५९ ॥
वृत्तं वा चायतं वृत्तं वा षष्टाश्रे चायतं तु वा ।
अष्टाश्रं वा षडश्रं वा द्वयश्रवृत्तमथापि वा ॥ ६० ॥
वेदाश्रं नागरं प्रोक्तं वस्वश्रं द्राविडं भवेत् ।
सुवृत्तं वेसरं प्रोक्तं र(न्द्रा)न्ध्रं स्यात् षडश्रकम् ॥ ६१ ॥
द्व्यश्रवृत्तं समाकारं आ(का)लिङ्गं परिकल्पयेत् ।
पूर्वोक्ताकारायामे तद्देवाख्यं विदुबुंधाः ॥ ६२ ॥
पूर्वोक्तभद्रसर्वेषां नानादिन(विध) रथे भवेत् ।
रथताराम्रिकांशेन वर्धनं द्विगुण्णायतम् ॥ ६३ ॥
पूर्वोक्तक्षुद्रमानेन देवभूसुरभूपतेः ।
युद्धार्थं च मखा (त्रा) र्थं स्यान्मध्यनित्योत्सवार्थकम् ॥ ६४ ॥
देवानां भूपतीनां च महामानं महोत्सवैः ।
युद्धयोग्यं यथासर्वें (वं) चक्रत्रयसमन्वितम् ॥ ६५ ॥
मखा(त्रा)र्थं सर्वंरथं (ध्वनार्थं) यथासर्वं (वं) वेदपादसमन्वितम् ।
नित्योत्सवं यथासर्वं (वं) पञ्चचक्रसमन्वितम् ॥ ६६ ॥