Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s45.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s45.1

Language
English

v3.c24.s45.1

देवानां च द्विजातीनां वर्णानां शयनार्थकम् ।
योग्यकं(क)पर्यङ्कस्य लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
एकादशाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ।
पञ्चविशाङ्गलान्तं स्याद्बालपर्यङ्कविस्तृतम् ॥ २ ॥
एवं चाष्टविधं प्रोक्तं बालानां सर्वजाति(ती)नाम् ।
तदर्धं च त्रिपादं च तत्समाधिकमायतम् ॥ ३ ॥
विस्तारार्धं त्रिपादं च परितो वातायनोदयम् ।
तद्विस्तारसमं वापि त्रिपादं पादोदयं भवे(स्या)त् ॥ ४ ॥
त्रिचतुष्पञ्चाङ्गुलं वापि पादविस्तारमेव च ।
चतुष्पादसमायुक्तं पादाग्रे चक्रसंयुतम् ॥ ५ ॥
पादतारसमं चक्रं(क्र)विस्तारं परिकीर्तितम् ।
अर्धैकद्व्यङ्गुलं वापि घनं युक्त्या प्रयोजयेत् ॥ ६ ॥
पादाग्रे सान्तरालं स्यात्कुर्यात्तिर्यक् च यन्त्रकम् ।
द्विमात्रं च त्रिमात्रं वा पर्यङ्कं(ङ्क)पट्टिकोदयम् ॥ ७ ॥
तद्द्वयं विस्तृतं चैव चाम्रं वामा(पादा)प्रकर्षयुक् ।
परितः पट्टिकामध्ये परितः छिद्रं योजयेत् ॥ ८ ॥
कार्पासं रज्जु वेणुं च तालं च शणवल्कलैः ।
पट्टिकाश्च त(कयोर्द्व)योर्मध्ये दीर्घदीर्घं तु योजयेत् ॥ ६ ॥
पट्टिकां परितो बाह्ये वृत्तकं परिकल्पयेत् ।
एकं वाथ द्वयं वापि चेपद्यं बहुधान्वितम् ॥ १० ॥
वृत्ताकृतीष्टपादानां युक्त्या वर्णेन लेपयेत् ।
गवाक्षाकारं युक्त्या च पट्टिकोर्ध्वे समन्ततः ॥ ११ ॥