Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s45.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s45.2
- Language
- English
v3.c24.s45.2
कुञ्जराचामलञ्चं वा पत्रपुष्पायलङ्कृतम् ।
क्षुद्रचेपणसंकीर्णं क्षुद्रनानाङ्घ्रिसंयुतम् ॥ १२ ॥
बहुपादश्रेणियुक्तमविद्या[ना]ङ्गक्रियान्वितम् ।
एवं तु बालपर्यङ्कं सर्वालङ्कारसंयुतम् ॥ १३ ॥
एकविंशाङ्गुलमारभ्य द्विव्यङ्गुलविवर्धनात् ।
सप्तत्रिंशाङ्गुलान्तं स्यात्पर्यङ्कस्य विशालता ॥ १४ ॥
कन्यसाद्युत्तमत्वं स्यादङ्गुलिकान्तरमेव च ।
एवं तु मानुषाणां च देवानां च विशेषतः ॥ १५ ॥
पाद(दं) बाह्यावसानं स्याद्विस्तारायामं मानयेत् ।
देवानां च द्विजातीनां विस्तारं(र)द्विगुणा(यता)यतम् ॥ १६ ॥
विशाले तु गुहांशं वा अंशाधिकायतं तथा ।
तस्माद्द्द्योनाधिकं चैतत्सर्वदोषसमुद्भवम् ॥ १७ ॥
त्रिचतुष्पञ्चषट्सप्ताष्टनन्ददशाङ्गुलम् ।
एकादशाङ्गुलान्तं च नवभेदमुदीरितम् ॥ १८ ॥
कन्यसाद्युत्तमान्तं स्यात्पट्टिकाविस्तृतं भवेत् ।
विस्तारार्धं तदुत्सेधं परितः पट्टिका भवेत् ॥ १६ ॥
वेदाश्रायतं सर्वं [तु] पर्यङ्कमिति कथ्यते ।
षडङ्गायादिसर्वेषां विस्तारे परिकल्पयेत् ॥ २० ॥
परितः पट्टिका बाह्ये वृत्तवेत्रादिमण्डितम् ।
अधिष्ठानोपपीठं यत्कुर्याद्वै पट्टिकोन्नतम् ॥ २१ ॥
श्रीबन्धं कुट्टिमं कुर्याद् देवभूसुरभूपतेः ।
पादबन्धमधिष्ठानं सर्वजात्यार्हकं भवेत् ॥ २२ ॥
प्रतिभद्रोपपीठं स्याद् भूसुरसुरभूपतेः ।
वेदिभद्रोपपीठं स्याद्वैश्यशूद्रस्य(द्वयोः) योग्यकम् ॥ २३ ॥
उपपीठमधिष्ठानं नाटकाद्यादिनावृतम् ।
देवानां देवरूपं मानुषाणां च मानवम् ॥ २४ ॥
देवानां सर्वरूपं स्यान्मानुषस्योक्तवद् भवेत् ।
पद्मपत्रादिचित्रैश्च सर्वालङ्कारसंयुतम् ॥ २५ ॥