Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s45.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s45.3

Language
English

v3.c24.s45.3

दन्तं वा दारुजं वापि क्षुद्रवेद्यादि कुट्टम्(इम)लैः ।
षण्णवाकार्ङ्गुुलं चैव त्रिविधं पादतुङ्गकम् ॥ २६ ॥
उत्सेधं च(धस्य) समं तारं त्रिपादं वार्धमेव वा ।
मूलतारं(र) शरांशो तु त्र्यंशं वाग्रविस्तृतम् ॥ २७ ॥
तदुत्सेधं तु नवांशं स्याज्जन्मनो(न ङ ) शं शिवांशकम् ।
पद्मत्तुङ्गं त्रिभागं स्यात्कर्णोध्वमस्वरांशकम् ॥ २८ ॥
कुम्भमेकेन कर्तव्यं कन्धरं च द्विभागिकम् ।
सार्धांशं चोर्ध्वपत्रं स्यादर्घांशं वाजनं भवेत् ॥ २६ ॥
कुम्भपादमिति प्रोक्तं तस्मादुक्तं प्रवेशनम् ।
तदेव हरिकार्या सर्वार्ड्डं पद्मावाजनम् ॥ ३० ॥
वज्रपादमिति प्रोक्तं युक्त्या कुर्यान्मनोहरम् ।
अथवा मध्यकर्णादौ चोर्ध्वादौ पद्मावाजनम् ॥ ३१ ॥
पद्मपादमिति प्रोक्तं सर्वालङ्कारसंयुतम् ।
चतुःषट्पादयुक्तं वा देवानां च द्विजातीनाम् ॥ ३२ ॥
देवानां भूतसिंहं वा पादमध्ये प्रयोजयेत् ।
नृपाणां सिंहपादं स्यात् शे(च्छे)षाणां पूर्ववद् भवेत् ॥ ३३ ॥
सर्वालङ्कारसंयुक्तं शेषं युक्त्या प्रयोजयेत् ।
अयस्कीलेन पादानां मध्ये रन्ध्रं प्रयोजयेत् ॥ ३४ ॥
तदूर्ध्वे पट्टिकां न्यस्य कीलाग्रे च कबन्धनम् ।
चतुर्भिः शृङ्खलायुक्तमान्दोलं चैकतो(त ड)परि ॥ ३५ ॥
देवभूसुरभूपानामन्येषां शयनार्थकम् ।
वकुलं चाशि(श्वि)नीपुत्रं द्राक्षारक्तं च चन्दनम् ॥ ३६ ॥
निम्बं च चन्दनं चैव चापशाखः शमी तथा ।
एवं तु शयनादीनामासनानां च दारुभिः (रुषि) ॥ ३७ ॥
दन्तं वै चीरिखी चैव तिन्दुकं विरलं तथा ।
शाकं च सर्वपादानां वृत्तमे(श्त्वै) रमुदीरितम् ॥ ३८ ॥
अन्यानि शिग्थसर्वैश्च(वांश्च) यथालाभेन संग्रहम् ॥ ४० ॥