Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s46.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s46.1
- Language
- English
v3.c24.s46.1
देवानां चक्रवर्त्यादिनृपाणा(नामा)सनयोग्यकम् ।
सिंहासनस्य मानं च लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
प्रथमाभिषेकयोग्यं स्यात्प्रथमवासनमेव च ।
मङ्गलाख्याभिषेकस्य मङ्गलासनमीरितम् ॥ २ ॥
वीराख्या[त्व]भिषेकस्य [च] वीरासनमुदीरितम् ।
विजयाख्यस्याभिषेकस्य विजयासनमीरितम् ॥ ३॥
एवं चतुर्विधं प्रोक्तं भूपानामासनं भवेत् ।
नित्यार्चनासनं चैव नित्योत्सवासनमीरितम् ॥ ४ ॥
विशेषाख्यार्चनार्थाय विशेषाख्या(महोत्सवा)र्चनासनम् ।
चतुर्विधात्मनं प्रोक्तं देवानामपि योग्यकम् ॥ ५ ॥
आदौ पद्मासनं प्रोक्तं द्वितीयं पद्मकेसरम् ।
तृतीयं पद्मभद्रं स्याच्छ्रीभद्रं स्याच्चतुर्थकम् ॥ ६ ॥
पञ्चमं श्रीविशालं स्यात्षष्ठं श्रीवद्ध(न्ध)मेव च ।
सप्तमं श्रीमुखं चैव भद्रासनं तु चाष्टकम् ॥ ७ ॥
नवमं पद्मं च भद्रं स्याद् दशमं पादबन्धकम् ।
आसनानि(नां) तु चैतानि(नां) नामानि कथितानि वै ॥ ८ ॥
अत्रोक्तमा(क्तानामा)सनानां च सर्वेषां मानमुच्यते ।
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ६॥
सप्तविंशाङ्गुलान्तं च विस्तारं नवधा भवेत् ।
परार्धं यज[मा]नार्थं चासनायामं पूर्ववत् ॥ १० ॥
पञ्चादशाङ्गुला(समा)रभ्य द्व्यङ्गुलविवर्धनात् ।
एकत्रिशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम् ॥ ११ ॥