Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s46.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s46.2
- Language
- English
v3.c24.s46.2
विस्तारं च तथा प्रोक्तं नित्योत्सवस्य चासने ।
व्यायामं पूर्ववत्कुर्याद् द्विगुणान्तं यथाक्रमम् ॥ १२ ॥
नवपङ्क्त्यङ्गुला (लमा) रभ्य द्व्यङ्गुलविवर्धनात् ।
पञ्चत्रिंशाङ्गुलान्तं स्याद्विस्तारं परिकीर्तितम् ॥ १३ ॥
महोत्सवे चासनं ह्येवं कन्यसादि त्रयं त्रयम् ।
विस्तारं (र) द्विगुणायामं पादोनद्विगुणं तु वा ॥ १४ ॥
विस्ताराधायतं वापि पादाभ्यन्तरमानकम् ।
पादबाह्यावसानं स्यात्पादमध्यावसानकम् ॥ १५ ॥
विस्तारे चायते कुर्यान्मानमेवं तु सर्वतः ।
एवं तु देवतानां च महीपानां च वक्ष्यते ॥ १६ ॥
पञ्चा (ञ्च) दशाङ्गुला (लमा) रभ्यं द्व्यङ्गुलविवर्धनात् ।
सैकत्रिंशाङ्गुलान्तं स्यात्प्रथमासनमेव च ॥ १७ ॥
विस्तारं नवधा प्रोक्तं कन्यसादि त्रयं त्रयम् ।
तस्मादर्धाधिकं वापि त्रिपादाधिकमेव वा ॥ १८ ॥
तत्समेना (मं वा) धिकं वापि त्रिविधं चायतं तथा ।
सप्तदशाङ्गुला (लमा) दौ स्याद् द्व्यङ्गुलविवर्धनात् ॥ १६ ॥
पञ्चत्रिंशतिमात्रान्तं नवतारं तु पूर्ववत् ।
वीरासनमिति प्रोक्तं दीर्घं (दैर्घ्यं) प्रागुक्तवन्नयेत् ॥ २० ॥
एकविंशाङ्कुलमारभ्य द्व्यङ्गुलविवर्धनात् ।
सप्तत्रिंशाङ्गुलान्तं स्याद्विजयासनं विस्तृतम् ॥ २१ ॥
नवभेदमिति प्रोक्तं दीर्घ (दैर्घ्यं) पूर्ववदाचरेत् ।
विस्तारमायतं प्रोक्तं तत्तत्तुङ्गमथोच्यते ॥ २२ ॥
एकाङ्गुलं समारभ्य चैकाङ्गुलविवर्धनात् ।
नवाङ्गुलान्तमुत्सेधं कन्यसादि त्रयं त्रयम् ॥ २३ ॥
आत्सनञ्चासनोत्तुङ्गं तद्विस्तारवशात्क्रमात् ।
व्यङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ २४ ॥
नन्दपङ्क्त्यङ्गुलान्तं स्यान्नित्यार्चनासनेादयम् ।
एवं नवविधं प्रोक्तं विस्तारस्य वसा (शान्) न्यसेत् ॥ २५ ॥