Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s47.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s47.1
- Language
- English
v3.c24.s47.1
देवानां भूपतीनां च भूष्यार्थ(?गृहादीनां) च तोरणम् ।
तल्लक्षणं विधानं च यथा सम्यक् प्रवक्ष्यते ॥ १ ॥
आसनोपरि विन्यस्य(सेत्) सर्वेषामपि तोरणम् ।
विस्तारे मध्यसूत्रस्य चापरे तोरणा[नि] न्यसेत् ॥ २ ॥
पीठताराधंभागे तु मध्ये चाङ्घ्रिकमध्यमम् ।
अथवा तत्रिभागैकद्वांशं चापरपूर्वकं ॥ ३ ॥
तन्मध्ये तोरणस्तम्भं मध्यं वा सर्वतो न्यसेत् ।
पीठायामं त्रिभागीकं द्व्यंशायामार्धमेव वा(च) ॥ ४ ॥
पीठायामे चतुर्भागे त्रियं(त्र्यं)शं चाम्र(ङ्घ्रि)कान्त[र]म् ।
अथवा पञ्चषट्सप्तसाष्टांशैकहीनकम् ॥ ५ ॥
स्तम्भमध्ये तु बाह्ये वा पूर्ववच्चान्तरं तु वा ।
पीठतारसमोर्धं वा सपादार्धिकमेव वा ॥ ६ ॥
त्रिपादादधिकोत्सेधं तत्समं वाधिकोन्नतम् ।
आयामसद्दशोत्सेधं तत्पादार्थिकमेव वा ॥ ७ ॥
अर्धं त्रिपादं तत्तुल्याधिकं वा तोरणोदयम् ।
तेन मानोदयं सर्वं शुद्धतोरणमानकम् ॥ ८ ॥
त्रिचतुष्पञ्चषट्सप्तचा(ष्टा)ष्टनन्ददशाङ्गुलम् ।
एकादशाङ्गुलं वापि नवधा तोरणोदयम् ॥ ६ ॥
त्रिचतुष्पञ्चषण्मात्रं पादविष्कम्भमिष्यते ।
तत्समं च त्रिपादं च सा(चा)र्धं वा बहलं भवेत् ॥ १० ॥
पादं सतोरणं कुर्यात्तोरणाङ्घ्रि परिन्यसेत् ।
पादाम्रे पट्टिकोपेतं तन्माने वक्ष्यतेऽधुना ॥ ११ ॥