Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s47.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s47.2
- Language
- English
v3.c24.s47.2
पादतारसमं वापि द्विगुणं वाजनोदयम् ।
तदर्द्धीर्घं फालकान्तं वा चतुष्पञ्चाङ्गुलान्ति(न्त)कम् ॥ १२ ॥
बाजनादितोरणो(णं) ह्येषं केवलं वाथ तोरणम् ।
तोरणस्योक्ततुङ्गे तु चाष्टभागे विभाजिते ॥ १३ ॥
तदेवं पञ्चभागाङ्घ्रितुङ्गं बन्धा(त्र्या)शतोरणम् ।
अथवा नवांशां (के) तुङ्गे षड्भागं चांघ्रि(ङ्घ्रि) तुङ्गकम् ॥ १४ ॥
दशभागे सप्तभागे तु पादं शेषांशतोरणम् ।
देवानां भूपतीनां च स्थानकस्यासनस्य च ॥ १५ ॥
वृत्तं वाथ त्रियुग्मं वा चार्च्चचन्द्राकृतिस्त(त)था ।
जना(त्रिधा) चाप(पा)कृतिर्वा(वा)पि यथेष्टाकारं तोरणम् ॥ १६ ॥
मध्यात्तु भ्रामयेच्छिल्पी वृत्ताकारं च तोरणम् ।
तदर्थे नासिकादौ तद् भ्रामयेदर्थचन्द्रकम् ॥ १७ ॥
वदर्थेन द्विपार्र्श्वे तु भ्रामयेद्धनुराकृतिम् ।
त्रिभुजं तत्समं नीत्वा तोरणं युक्तितो न्यसेत् ॥ १८ ॥
पत्रं पुष्पं च रत्नं च चित्रतोरणमेव च ।
एवं चतुर्विधं प्रोक्तं देवानां च त्रिमीलिनाम् ॥ १६॥
अन्येषां भूपतीनां च पुष्पं रत्नं चे तोरणम् ।
पत्रवल्यादि[भिः] संभूष्य पत्रतोरणमीरितम् ॥ २० ॥
नानापुष्पैर लंकृत्य पुष्पतो रणमेव च ।
सर्वरत्नेरलंकृत्य कर्त्तव्यं रत्नतोरणम् ॥ २१ ॥
नानालङ्कारसंयुक्तं यक्षविद्याधरादिभिः ।
तच्चित्रतोरणं प्रोक्तं पूर्वोक्तानां तु संमतम् ॥ २२ ॥
सर्वेषां तोरणमध्ये चोर्ध्वं तुम्बु(म्बु)रु नारदम् ।
तत्प्रदेशे द्विपार्र्श्वे तु मकरादिविभूषितम् ॥ २३ ॥
तोरणास्याग्रमूले तु गृह्या(ग्राह)पत्रैश्च भूषितम् ।
तोरणाद्यं तु पत्रादिभूतवल्यासतान्वितम् ॥ २४ ॥
पादानां च द्विपार्र्श्वे तु व्याल(लं) तोरणधारिणम् ।
पत्रतोरणमित्युक्तं शेषं युक्त्या प्रयोजयेत् ॥ २५ ॥