Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s47.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s47.3
- Language
- English
v3.c24.s47.3
तदेव रत्नपुष्पैश्च नानालङ्कारसंयुतम् ।
यक्षविद्याधराद्यैश्च युक्तं स्याच्चित्रतोरणम् ॥ २६ ॥
ग्राहकिम्ब(न्न)रीसंयुक्तं चित्रपद्मादिभिर्विना ।
सर्वाङ्गं पुष्पसंयुक्तं सर्वालङ्कारसंयुतम् ॥ २७ ॥
पुष्पंतोरणमित्युक्तं मकरन्दैश्च पुष्पकम् ।
सर्वाङ्गं नवरत्नैश्च ग्राहकिन्नरभूषितम् ॥ २८ ॥
ग्राहपुच्छ्लादिसर्वेषां सर्वरत्नेन बन्धयेत् ।
रत्नतारागणैर्युक्तं क्वचि रा(चा)वृतलम्बितम् ॥ २९ ॥
तोरणस्योपरि देशे तु भुजङ्गपादद्वयोरपि ।
ग्राहान्तं सर्वरत्नैश्च पूरितं श्रेणिसंयुतम् ॥ ३० ॥
रत्नतोरणमित्युक्तं सर्वालङ्कारसंयुतम् ।
वाजनपाद(दा)लङ्कारं सर्वं प्रागुक्तवन्नयेत् ॥ ३१ ॥
[तोरणस्य] कृतं मध्ये कमलां(कां) कुर्यात् [तु] वारणम् ।
तन्मध्ये कल्पयेल्लक्ष्मीं नानालङ्कारभूषित(ता)म् ॥ ३२ ॥
ना(ता)टिकाफलकामुष्टिवन्धने पत्रवल्लिकम् ।
मकरं किम्ब(न्न)रीवक्रं नाटिकादि(दो) भुजङ्गवत् ॥ ३३ ॥
केसरिमण्डनं भवति चित्रतोरणनाटकैः ॥ ३४ ॥
पत्रपुष्पमयरत्नतोरणैः
चित्रहीनमित्युक्तभूषणैः ।
कल्पयेत्स्वपि च रत्नतोरणैः
चित्रहीनमित्युक्तभूषणैः ॥ ३५ ॥
कल्पयेत्स्वपि च तोरणैः
पुष्पहीनमथ पत्रहीनकम् ।
रत्नहीनमथ पत्रतोरणैः
पद्मयुक्तमथ पुष्पतोदणैः ॥ ३६ ॥
पत्रपुष्पनहि(हीने) चान्यभूषणम् ।
कल्पयेत्स्वपि शिल्पिविर्वरैः ॥ ३७ ॥