Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s49.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s49.1

Language
English

v3.c24.s49.1

देवानां चक्रवर्त्यादिभूपालानां च योग्यकम् ।
कल्पवृक्षादिन(दे)स्तारं मानं लक्षणमुच्यते ॥ १ ॥
तोरणोदयपादं तु पादार्धाधिकोदयम् ।
एवं वृक्षस्य तुङ्गस्य भा(ङ्गानि चा)सनस्योपरि न्यसेत् ॥ २ ॥
शासनायाममध्ये तु तोरणस्योपरि न्यसेत् ।
षट्सप्ताष्टाङ्गुलं वापि मानदेवा(ष्टा)ङ्गुलेन वा ॥ ३ ॥
कल्पवृक्षस्य मूले तु विशालं परिकीर्तितम् ।
तत्तदेकाङ्गुलार्धहीनं वृक्षस्याग्रविशालकम् ॥ ४ ॥
वृक्षपादमिति प्रोक्तं चक्र(पत्र)वल्ल्यादिभूषितम् ।
अथवा ऋज्व्याङ्ग(व्यङ्गं) तं कुर्यान्मूलादग्रविशालकम् ॥ ५ ॥
भुजङ्गेनावृतं पादं मूर्ध्नि पञ्चफणान्वितम् ।
सप्तासनफणं सर्वं स्फुरज्जिह्वद्वयान्वितम् ॥ ६ ॥
षट्सप्ताष्टनबाहुल्य(ङ्गानि) दशमेकादशाङ्गुलम् ।
द्वादशाङ्गुलमेवं वा सैकाकर्णाङ्गुलमेव वा ॥ ७ ॥
चतुर्दशाङ्गुलान्तं स्यान्नवभेदफणान्वितम् ।
तत्समं मध्यविस्तारं किञ्चिद्धीनामविस्तृतम् ॥ ८ ॥
सार्धं मूलविस्तारं पुच्छाम्राङ्गुलकं ततः ।
आमूलाग्रं क्षयं कुर्याद्युक्त्या च सर्वरूपकम् ॥ ९ ॥
वक्रं व्याळान्तरं भावे शेषं युक्त्या प्रयोजयेत् ।
तदूर्ध्वं वृक्षशाखाश्च नवपङ्क्तीश्च शाखयुक् ॥ १० ॥
एकादश च शाखाश्च त्रयोविंशच्च संख्यया ।
सप्तष्विधं प्रोक्तं कन्यसादि त्रयं त्रयम् ॥ ११ ॥