Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s49.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s49.2

Language
English

v3.c24.s49.2

नरेन्द्रस्वाधिराजस्य सार्वभौमस्य योजयेत् ।
नवशाखां समारभ्य द्विदिशाखाविवर्धनात् ॥ १२ ॥
पञ्चविंशतिशाखान्तं देवानां नवधा भवेत् ।
एकादशाङ्गुला(समा)रभ्य द्विशङ्खुलविवर्धनात् ॥ १३ ॥
नवविंशाङ्गुलांन्तं स्यात्कन्यसादि त्रयं त्रयम् ।
शाखायामं नव(वं) प्रोक्तं भूमतीनां च संमतम् ॥ १४ ॥
त्रयोदशाङ्गुला (समा) रभ्य द्विशङ्खुलविवर्धनात् ।
एकत्रिशाङ्गुलांन्तं स्यात्कन्यसादुत्तमाङ्ग (न्त) कम् ॥ १५ ॥
एवं नवविधं प्रोक्तमायामं देवं (वे) प्रयोजयेत् ।
त्रिचतुष्पञ्चषट्सप्ताष्टनन्ददशाङ्गुलम् ॥ १६ ॥
एकादशाङ्गुलान्तं स्यात्कन्यसादीनि पूर्ववत् ।
शाखाविशालता प्रोक्तं (क्ता) भूपानां च यथाक्रमम् ॥ १७ ॥
पञ्चाङ्गुलं समारभ्य ए(वै) कैकाङ्गुलवर्धनात् ।
त्रयोदशाङ्गुलान्तं स्यात्तधा शाखाविशालता ॥ १८ ॥
एवं नवविधं प्रोक्तं देवतानां च योग्यकम् ।
तत्समं सार्धमेवं वा तच्छाखाबाहु(ह)लं भवेत् ॥ १९ ॥
पादाग्रोपरि शाखाच(याः) सर्वमूलं तु योजयेत् ।
वृक्षमूलविशालं स्यात्समं द्वयर्धाङ्गुलाधिकम् ॥ २० ॥
त्रिपादाधिकमेवं तत्तत्समाधिकमेव वा ।
शाखामूलविशालं स्याद्युक्त्या तत्रैव योजयेत् ॥ २१ ॥
शाखामूले तु शाला(खा)नां मूलवल्ल्यादिपत्रयुक् ।
महावल्लीचूलनं स्याच्छिन्नमत्स्यादि पार्श्वयोः ॥ २३ ॥
चक्राकारं यथाशाखा भ्रमचूलनमण्डणा(न)म् ।
पत्रपुच्छा(प्या) प्रमूलं स्यात्सममं चाग्रवल्लिका ॥ २४ ॥
एकानैकस्य शाखानां चान्तराले सपुष्पकैः ।
पत्रैर्मूलादिवस्त्वै(शोभि)श्च वल्लीमूलं च वल्लिके ॥ २५ ॥
बहुवल्ल्यादिपत्रैश्च पुष्पैश्च फलकैरपि ।
कुर्यात्तु पत्रशाखायां फलङ्गीनाष्व(नव) नानि च ॥ २६ ॥

Linked texts (1)