Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s49.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s49.3

Language
English

v3.c24.s49.3

वालवस्त्यादिपत्रैश्च सुरपुष्पसमून्कतम् ।
सर्वेषामपि वल्ल्या(ल्ली) च श्यामवर्णनिभं भवेत् ॥ २७ ॥
वल्ल्यग्रं तु सर्वेषां रक्तवर्णेन शोभितम् ।
सर्वेषां पत्रचिन्हं स्याद्धेमवर्णेन शोभितम् ॥ २८ ॥
पत्राग्रं क्षुद्रवल्ल्या च सर्वं श्यामानिभं भवेत् ।
भ्रमरैरभिसंयुक्तं सर्वशाखान्तरे(के)तने ॥ २६ ॥
नानापत्रैश्च पुष्पैश्च नानावल्ल्यै(ल्लीभि)श्च संयुतम् ।
नानारत्नैश्च दारुं(मभिश) च नानापक्ष्य(क्षि)भिरामयेत् ॥ ३० ॥
नाना[पि] वानरैर्युक्तं [च] नानादेवा(वी)भिरामयेत् ।
सिद्धविद्याधराद्यैश्च(दिभिः) शाखैः शाखान्तरालकैः ॥ ३१ ॥
अन्तर्बहिंश्च सर्वेषां सर्वत्र परिकल्पयेत् ।
वृक्षमूलादिचा(द्य)प्रान्तं [च] युक्त्या पत्रादिशोभितम् ॥ ३२ ॥
सर्वाङ्गं(ङ्गे) क्षुद्रपर्वं(वं) स्यात्पत्रवस्त्यादिनिर्गमम् ।
शाखामूलस्य पर्वे तु (र्वंषि) मौलिमुण्डं च योजयेत् ॥ ३३ ॥
पत्रवस्त्यैश्चा(ल्लीभिश्चा)ग्रैश्च भ्रमरीपीदिसंयुतम् ।
भ्रमराकृति सर्वत्र पत्रवस्त्यादिभिस्तथा ॥ ३४ ॥
एवं तु कल्पवृक्षं(क्षः) स्यात् शे(च्छ्र) ' युक्त्या प्रयोजयेत् ॥ ३५ ॥
मुक्ता(क्त) प्रयाङ्गम(स्या)च मण्डपमध्यदेशे
सिंहासनं(न)मकरचिह्ननतोरणार्थम् ।
कल्पद्रुमस्य(स्तु) पुरतः षडिरङ्ग(ङ्गं) र्मा स्यात्
चक्रेश्वरस्तु परिरम्य विराजते स्म ॥ ३६ ॥
सम्पूर्णचन्द्रवदनामहाराजपुत्रा
राजाङ्गनानगखारविलासिनीभिः
विद्धद्भिरन्यदृ(न्यैर्)पि वन्दिकुमारमुख्यैः
संसेव्यमानचरखाम्बुरुह्या(है)स्त(स्तैः) राजभिः ॥ ३७ ॥