Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.2

Language
English

v3.c24.s50.2

किरीटं सार्वभौमस्य चाधिराजस्य योग्यकम् ।
नरेन्द्रस्य करण्डं स्यात्पार्थिवस्य शिरस्त्रकम् ॥ १२ ॥
चक्रवर्त्यादिभूपस्य करण्डमकुटं तु वा ।
पत्रपट्टं पट्टधरो (रे) रत्नपट्टं च पार्थिवे ॥ १३ ॥
पट्टभाक् (जः) पुष्पपट्टं च चोक्तमेवं पुरातनैः ।
प्राहारकास्त्रग्राहौ च (हयोः) पुष्पमाल्यं प्रकीर्तितम् ॥ १४ ॥
चक्रवर्तिमहिष्याश्च कुन्त (न्त) लं मकुटं भवेत् ।
अधिराज (जस्य) नरेन्द्रस्य महिष्याः केशबन्धनम् ॥ १५ ॥
पार्थिकं (क) [च] पट्टधरोम (रयोर्म) ण्डलेशस्य पट्टभाक् (जः) ।
एतेषां महिषीभ्यां (णां) च धम्मिल्लमकुटा (टमा) वृतम् ॥ १६ ॥
प्राहारकास्त्रग्राहाभ्यां (णां) महिष्या (षीणाम) लकचूडकम् ।
वस्त्रायामत्रिधायामं द्वयं वा मकुटोदयम् ॥ १७ ॥
पितामहस्य रुद्रस्य पादोनद्वयमेव च ।
अन्येषां देवतानां च चाङ्ग (चार्ध) पादोनमेव च ॥ १८ ॥
किन्नरयक्षकाणां च अ(तु चा) ध्यर्थं वा समन्तकम् ।
सर्वेषा (र्वासा) मपि शक्तीनां मुखायामद्वयं भवेत् ॥ १९ ॥
केशान्तात्कुडु (ण्ड) लान्तं स्यात्सर्वेषां मकुटायतम् ।
मुखायामसमं मूलविस्तारं भूषणान्यपि ॥ २० ॥
तदष्टांशेन हीने वा षोडशांशोनमेव वा ।
मकुटामविशालं स्याच्छिखायाममध्यादिवेशिकम् ॥ २१ ॥
मूलताराधंभागं वा त्रिभागैकांशमेव च ।
एवं करण्डमौल्य। (ल्य) ग्रे विस्तारं परिकीर्तितम् ॥ २२ ॥
सर्वेषां मकुटानां तु चामूलाग्रचयं क्रमात् ।
भूपा (भौमा) नां च शिरोबाहुतुल्यं तन्मकुटोदयम् ॥ २३ ॥
तत्तुङ्गे षोडशांशं स्यान्महाराजस्य हीनकम् ।
तत्तुङ्गे द्वांशहीनोणं नरेन्द्राख्यस्य भूपतेः ॥ २४ ॥
अधं पार्थिवभूपस्य शिरस्त्रोदयमीरितम् ।
शिरोनाहसमे दीर्घे (दैर्ये) तत्रिभागं द्विभागिकम् ॥ २५ ॥