Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.3
- Language
- English
v3.c24.s50.3
चक्रवर्त्यादि(र्व्याधि)राजस्य(वोर्) महिषीमकुटोदयम् ।
अन्यत्सर्वं (अन्यसर्वं)महिषीणां मुखायामसमं बुधैः ॥ २६ ॥ 52
पादोनं च तदर्धं वा धम्मिल्ला[ल]कादिको(यो)दयम् ।
शेषं प्रागुक्तवन्मानं कुर्यात्तत्र विचक्षणः ॥ २७ ॥
शिरोनाहं त्रिभागैकं पट्टस्त्रो(स्यो)दयमेव च ।
एवं पट्टधरं(रस्य) प्रोक्तं पट्टमेवं शिरोधृतम् ॥ २८ ॥ 56
चतुर्भागैकपट्टं स्यात्तुङ्गानां मण्डलेश्वरम्(स्य) ।
पट्टमेवं शिरोनाहे षड्भागे चैकभागिकम् ॥ २९ ॥
पट्टभागाख्यभूपस्य पट्टतुङ्गमथैव च ।
सर्वानां(र्वेषां) चेति प्रोक्तमङ्कहारमिहोच्यते ॥ ३० ॥ 60
दशपद्यैश्च हे(हैं)मादिभिर्माल्यादीनां प्रकल्पयेत् ।
पञ्चाशत(तं) सहस्रं च निष्कं च द्विसहस्रकम् ॥ ३१ ॥
अथवा पञ्चशताधिक्यं निष्कान्तं द्विसहस्रकम् ।
कन्यस्यादुत्तमान्तं स्यात्स्वर्णसंख्यात्रयोदिते ॥ ३२ ॥ 64
प्राप्तं च मङ्गलं चैव वीरं च विजयं तथा ।
चतुर्विधाभिषेकस्य चक्रवर्तेश्च कथ्यते ॥ ३३ ॥
तदर्धं चावरोधस्य हिरण्य(ण्यं) मकुटस्य वा ।
द्विसहस्रान्त[वन्] मुक्तादित्रयसमं तथा [चैव] ॥ ३४ ॥ 68
अधिराजस्य मकुटे स्वर्णसंख्याप्रकीर्तितम्(ता) ।
पञ्चशतनिष्कमारभ्य पञ्चशतविवर्धनात् ॥ ३५ ॥
पञ्चाशतसहस्रादि(न्तं) कन्यसादुत्तमान्तकम् ।
पट्टयुक्तं तथाबेरे भूपानां च विशेषतः ॥ ३६ ॥ 72
एवं नरेन्द्रभूपस्य हेम स्यान्मकुटस्य च ।
चतुःशतनिष्कमादौ चतुःशतविवर्धनात् ॥ ३७ ॥
शतद्वादशनिष्कान्तं कन्यसादि त्रयं त्रयम् ।
पार्थिवस्य शिरस्त्रस्य हेमं(म) तत्परिकीर्तितम् ॥ ३८ ॥ 76
त्रिशतनिष्कमारभ्य त्रिशतनिष्कविवर्धनात् ।
निष्कं नवशतान्तं स्यात्कन्यसादुत्तमान्तकम् ॥ ३९ ॥