Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.9
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.9
- Language
- English
v3.c24.s50.9
वीर्यं च विजयं चापि कीर्तिं लक्ष्मीं च निर्दिशेत् ।
पायसान्नसंस्पर्शे चान्नवृद्धिः सदा भवेत् ॥ १०७॥
धान्यराशि(शेः) करेणैव स्पर्शद्रव्या(शैश्चेत्) सुभिक्षकृम् ।
स्वर्णादिलौहरत्नं च प्रजानां श्रीकरं भवेत् ॥ १०८ ॥
खड्गाद्यस्त्रं स्पृशेद्वापि शौर्यं तस्य विनिर्दिशेत् ।
दुद्रव्यस्पर्शनान्तस्य राज्यस्य स्यात्त्वमङ्गलम् ॥ १०६ ॥
द्रव्यादीनां [च] तत्सर्वं(र्वेषां) शैय्यादिस्पर्शने(नं) भवेत् ।
प्राप्तं च मङ्गलं चैव वीर्यं च विजयं तथा ॥ ११०॥
एते चतुर्विधाः प्रोक्ता चाभिषेका यथोक्तवत् ॥ १११ ॥
उक्ताः सर्वाभिषेकाः सकलनृपतिभिः (तीनां) काम्यनित्याख्यकं च ।
अन्यैर्नैमित्तिकाद्यैरपि च यदुचितं तत्तदेवाभिषेकः ।
इत्थं वेदैः पुराणैः सकलमुनिवरैर्मानसारादिमुख्यैः
विद्वद्भिः शिल्प(ल्प्य) शास्त्रैर (स्त्रेश्च) पि च यदुदितं शास्त्रतन्त्रं प्रकुर्यात् ॥ ११२ ॥