Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.8
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.8
- Language
- English
v3.c24.s50.8
रत्नसंघट्टमकुटं मूर्ध्नि राज्ञो(ज्ञ व)पयोजयेत् ।
सर्वमङ्गलघोषैश्च स्वस्तिवाचनपूर्वकम् ॥ ९६ ॥
दूर्वा मधूक्रमालाश्च दधिविन्दु ललाटके ।
वक्षस्थले बाहुमाला नयनाञ्जनरञ्जनः ॥ ९७ ॥
दू(धू)पदीपं दधेत्(त) पश्चात्परमाङ्गं (ङ्गं) प्रदर्शयेत् ।
यवाङ्करं च दूर्वा च पुञ्जलक् भाजनोपरि ॥ ९८ ॥
ज्ञानवृद्धैरमात्यैश्च कुर्यान् (क्रियेत) नीराञ्जला(जना) विधैः (धिः) ।
वृद्धैः सुमङ्गलीभिस्तैराशीर्वचनपूर्वकम् ॥ ९९ ॥
आर्द्रा (र्द्र) हरिदासम्मिलितान् साक्षतान्प्रोक्षयेद् द्विजैः (जः) ।
कुर्यादारोहणं पश्चाद्राज्ञा त्वैरा (वतोपरि ॥ १०० ॥
> ऐरावतारूढनृपाल मौलि
>> मुक्तान्यकान्वा (न्त्या) दयदिप्यमान् (नः) ।
> ललाटपट्टस्य सुखेन्दुकान्त्य
>> दिङ्गण्उलं भास्व [ र ] ख अ (च) तस्तम्(स्तः) ॥ १०१ ॥
> इतस्ततश्चामरबीज्यमाने
>> रूपाङ्गनाभिः परितो निषेव्यः ।
> सपद्मवैश्चछत्रचतुष्टयैश्च
>> विराजमानं (नः) मखिदर्पणादिभिः ॥ १०२ ॥
> फलशं च सुवर्णनिर्मितम्
>> ध्वजसंपातपताकयावृतम् ।
> नगरस्य ततः प्रदक्षिणम्
>> कुरुतां वृत्तसंगीतवाद्यकैः ॥ १०३ ॥
नगरं(र) प्रदक्षिणं कुर्यात्सर्वमङ्गलघोषयैः ।
गृहप्रवेशसमये नेत्रबन्धं च कारयेत् ॥ १०४ ॥
धान्यादिपायसक्षीरसखण्डादिघरादिकम् ।
मङ्गलद्रव्यमा[म]ङ्गल्यमखिलं निक्षिपेद्बुधः ॥ १०५ ॥
स्वयमागत्य तद्द्रव्यं राजा हस्तेनोपस्पृशेत् ।
दुर्भिक्षं च सुभिक्षं च विद्वान् पश्चाद् विनिर्दिशेत् ॥ १०६ ॥