Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.1

Language
English

v3.c24.s51.1

देवानां भूपतीनां च भूषणानां तु लक्षणम् ।
क्रमात्तद्विधिना सम्यक् संक्षेपादृच्यतेऽधुना ॥ १ ॥
पत्रकल्पं चित्रकल्पं रत्नकल्पं च मिश्रितम् ।
एषां च(तच्च)तुर्विधं प्रोक्तं कुर्यादाभरणं बुधः ॥ २ ॥
देवानामपि सर्वेषां कल्पैः(ल्पं) सर्वं तु योग्यकम् ।
पत्रकल्पं विना सर्वं सार्वभौमस्य योग्यकम् ॥ ३ ॥
रत्नं मिश्रं च योग्यं स्यादधिराजनरेन्द्रयोः ।
अन्येषां भूपतीनां च मिश्रकल्पं च योग्यकम् ॥ ४ ॥
पत्रवल्लीर(ल्लोभिर)लङ्कृत्य पत्रकल्पमिति स्मृतम् ।
पुष्पवल्ली च(ल्लीभिश्च) चित्रैश्च सर्वरत्नेरलङ्कृतम् ॥ ५ ॥
एतत्तु चित्रकल्पं तु नाटकाभिरलङ्कृतम् ।
पुष्परत्नेरलङ्कृत्य भूषणं रत्नकल्पकम् ॥ ६ ॥
पत्ररत्नैश्च संभूष्य मिश्रकल्पमिति स्मृतम् ।
हारोपग्रीवकेयूरकटकैश्च सुपूरिमम् ॥ ७ ॥
बाहुवलयदामं(म) च स्कन्धो(न्ध)मालावकम्बनम् ।
प्रकोष्ठे वलयं चैव मणिबन्धकलापकम् ॥ ८ ॥
रत्नाङ्गुलीयकैश्चैव विना मध्याङ्गुलीयकम् ।
मध्ये चोदरबन्धं स्यात्तस्योर्ध्वं स्तनसूत्रकम् ॥ ६ ॥
यज्ञसूत्रादिपार्श्वेकं सूत्रं स्यात्तु समावृतम् ।
पुरसूत्रलम्बनं पूर्वं यज्ञसूत्रं तु बन्धनम् ॥ १० ॥
कटिसूत्रावसानं स्यात्पुरसूत्रमिति स्मृतम् ।
वक्षस्थले च हारं स्यादुपग्रीवहृदयान्तरकम् ॥ ११ ॥