Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51: भूषणलक्षणम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51

Language
English

भूषणलक्षणम्

v3.c24.s51.1

देवानां भूपतीनां च भूषणानां तु लक्षणम् ।
क्रमात्तद्विधिना सम्यक् संक्षेपादृच्यतेऽधुना ॥ १ ॥
पत्रकल्पं चित्रकल्पं रत्नकल्पं च मिश्रितम् ।
एषां च(तच्च)तुर्विधं प्रोक्तं कुर्यादाभरणं बुधः ॥ २ ॥
देवानामपि सर्वेषां कल्पैः(ल्पं) सर्वं तु योग्यकम् ।
पत्रकल्पं विना सर्वं सार्वभौमस्य योग्यकम् ॥ ३ ॥
रत्नं मिश्रं च योग्यं स्यादधिराजनरेन्द्रयोः ।
अन्येषां भूपतीनां च मिश्रकल्पं च योग्यकम् ॥ ४ ॥
पत्रवल्लीर(ल्लोभिर)लङ्कृत्य पत्रकल्पमिति स्मृतम् ।
पुष्पवल्ली च(ल्लीभिश्च) चित्रैश्च सर्वरत्नेरलङ्कृतम् ॥ ५ ॥
एतत्तु चित्रकल्पं तु नाटकाभिरलङ्कृतम् ।
पुष्परत्नेरलङ्कृत्य भूषणं रत्नकल्पकम् ॥ ६ ॥
पत्ररत्नैश्च संभूष्य मिश्रकल्पमिति स्मृतम् ।
हारोपग्रीवकेयूरकटकैश्च सुपूरिमम् ॥ ७ ॥
बाहुवलयदामं(म) च स्कन्धो(न्ध)मालावकम्बनम् ।
प्रकोष्ठे वलयं चैव मणिबन्धकलापकम् ॥ ८ ॥
रत्नाङ्गुलीयकैश्चैव विना मध्याङ्गुलीयकम् ।
मध्ये चोदरबन्धं स्यात्तस्योर्ध्वं स्तनसूत्रकम् ॥ ६ ॥
यज्ञसूत्रादिपार्श्वेकं सूत्रं स्यात्तु समावृतम् ।
पुरसूत्रलम्बनं पूर्वं यज्ञसूत्रं तु बन्धनम् ॥ १० ॥
कटिसूत्रावसानं स्यात्पुरसूत्रमिति स्मृतम् ।
वक्षस्थले च हारं स्यादुपग्रीवहृदयान्तरकम् ॥ ११ ॥

v3.c24.s51.2

बाहुमूले तु वलयं दाम कच्छावसानकम् ।
बाहुमा(भू) षावलम्बं स्यात्केयूरकटकान्वितम् ॥ १२ ॥
बाह्वायामस्य मध्ये तु केयूरकटकान्वितम् ।
तदूर्ध्वं पूरिमं कुर्यात्कर्णे मकरभूषणम् ॥ १३ ॥
कटिसूत्रं तु संयुक्तं कटिप्रस्थ(प्रान्ते) सपट्टिका ।
मेढ्रान्तं पट्टिकान्तं स्यात्तन्मध्ये सिंहवक्त्रवत् ॥ १४ ॥
अथवा रत्नबन्धं स्यात्स्यादामेढ्र विनिर्गमम् ।
निर्व्य(नीलं) च पश्चपार्श्वे तु मध्ये दामचलान्वितम् ॥ १५ ॥
पीताम्बरदुकूलं च नलकान्तप्रलम्बनम् ।
अथवा जानुपर्यन्तं चर्मचीरं च वाससम् ॥ १६ ॥
जङ्घादिवलयोपेतं पादजालादिभूषणम् ।
विहाय तर्जनीं सर्वैर(वैश्च)ङ्गुलैर(लेष्वा)ङ्गुलीयकम् ॥ १७ ॥
ऊर्ध्वकाये च हारादि पार्श्वयोर्वात (तु) लम्बनम् ।
मध्ये दामं(म) च लम्बं (म्बितं) स्याच्छन्नवीरमिति स्मृतम् ॥ १८ ॥
इत्युक्तं भूषणं देवेश्व(वानां च)क्रवर्तिरि(न इ)ति स्मृतम् ।
चक्रव(र्तिनं) स्तद्वद्विष्णोर्वनमाला विभूषित(पद्मा)म् ॥ १९ ॥
अधिराज नरेन्द्राम्यां(न्द्राभ्योः) विनासूत्रोपरिस्तनी ।
अन्येषां सर्वभूपानां केयूरकटकं विना ॥ २० ॥
सर्वेषामपि देवानां गुल्फस्योपरिदेशके ।
भुजङ्गकटकोपेतं पादनूपुरसंयुतम् ॥ २१ ॥
कर्णं विभूषणं कुर्यान्मकराङ्कितकुण्डलम् ।
अथवा स्वर्णताटङ्कौ शेषं तु पूर्ववद्भवेत् ॥ २२ ॥
अङ्गभूषणमित्युक्तं बहिर्भूषणमुच्यते ।
दीपखण्डं व्यजनं च दर्पणं चैव लक्षणम् ॥ २३ ॥
पर्यङ्कमञ्चकादीनां दोलाया लक्षणं तथा ।
भूपानां च तुलाभारतुलालक्षणमुच्यते ॥ २४ ॥
वत्सरा रम्भलेखार्थं पत्रं च कर्णलक्षणम् ।
मृगनामिविडाळस्य शुकस्यापि च पञ्जरम् ॥ २५ ॥

v3.c24.s51.3

चातकस्य चकोरस्य मरालस्य च पञ्जरम्।
पारावतस्य नीडं च नीलकण्ठस्य पञ्जरम् ॥ २६ ॥
तित्तिरेक्व कुलायं च कन्दु(खञ्ज)रीट(ट)स्य पञ्जरम् ।
कुक्कुटस्य कुलायं च नकुलस्यापि पञ्जरम् ॥ २७ ॥
चटकस्य गोधारस्य पञ्जरं व्याघ्रपञ्जरम् ।
सर्वेषां लक्षणं वक्ष्ये विधिना संक्षेपतः क्रमात् ॥ २८ ॥
द्वादशाङ्गुलमारभ्य ए(चै)कादशाङ्गुलं भवेत् ।
अष्टसप्ताङ्गुलोपेतं विंशत्यङ्गुलकान्तकम् ॥ २९ ॥
नवधा दीपपण्डोचं द्व्यङ्गुलविवर्धनात् ।
अथवा हस्तमानेन दीपपण्डोदयं क्रमात् ॥ ३० ॥
एकहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
द्विकरान्तं तथोत्सेधं तथा हस्तेन वर्धयेत् ॥ ३१ ॥
नवहस्तावसानं स्यात्कन्यसादि त्रयं त्रयम् ।
केचिदुत्से(तस्तु)दीपदण्डं हर्म्यवशोदयम् ॥ ३२ ॥
प्रस्तरं वेदिकान्तं च ग्रीवान्तं दण्डकान्तकम् ।
नासिकान्तं फलि(ल)कान्तं पद्मान्तं तद्दृष्टान्तकम् ॥ ३३ ॥
स्तूपिकाग्रावसाने स्यात्कन्यसादि त्रयं त्रयम् ।
एकाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ॥ ३४ ॥
अथवाधर्धाङ्गुलैर्वृद्ध्यात्वथषडङ्गुलान्तकम् ।
मात्राङ्गुलोनमें (ले नै) वोक्तं [च] दीपपण्डविशालकम् ॥ ३५ ॥
एवं तु दारुजैः कुर्याल्लोहजेतु (न) विशेषतः ।
एकाङ्गुलं समारभ्य चाधर्धाङ्गुलवर्धनात् ॥ ३६ ॥
पञ्चाङ्गुलावसानं स्यात्कन्यसादि त्रयं त्रयम् ।
फलकादण्डकमिति प्रोक्तं विस्तारं दण्डमूलके ॥ ३७ ॥
त्रिचतुष्पञ्चषट्सप्तसाष्टभाग(गे) विभाजिते ।
तत्तदेकांशहीनं स्याच्छ्लेषदण्डाग्रविस्तृतम् ॥ ३८ ॥
चित्रपाण्यग्रवद् दण्डं मूले पद्मासमान्वितम् ।
अग्रे च फलकान्तं च तार्टिकायैर्विभूषितम् ॥ ३९ ॥

v3.c24.s51.4

अथवाङ्घ्रिकवारि(रि) स्यादूर्ध्वं च कुड्मलान्वितम् ।
दण्डविस्तारमानेन दण्डद्वित्रयमेव वा ॥ ४० ॥
चतुर्दण्डं पञ्चषड्दण्डं पद्मविस्तारमेव च ।
फलका च त्रिदण्डं स्यादथवा पङ्कजोक्तवत् ॥ ४१ ॥
दण्डमध्ये तु ते सर्वे युग्मा चाङ्घ्रिकवारिका ।
चतुरश्रं वा तदष्टाश्रं वृत्तं वा चलदण्डकम् ॥ ४२ ॥
स्थिरदण्डविशालं तु मानाङ्गुलवशान्नयेत् ।
त्रिचतुर्मात्रमारभ्य द्व्यङ्गुलाद्विवर्धनात् ॥ ४३ ॥
एकोनविंशत्यङ्गुल्या विंशत्यङ्गुलकान्तकम् ।
एवं नवविधं प्रोक्तं स्थिरदण्डविशालकम् ॥ ४४ ॥
लोहजैर्दारुजैर्वापि शैले वाथ प्रकल्पयेत् ।
पुरोक्तदण्डतुङ्गे तु त्रिचतुष्पञ्चषडंशके ॥ ४५ ॥
एकैकं चाधिकं युक्तं दण्डस्य घात(घन)मानकम् ।
मूले च वेदिकां कुर्यात्पद्मोपपीठमेव वा ॥ ४६ ॥
फलकादिभूपर्य्यं वापि मञ्जु(ऋजु)दण्डमथापि वा ।
मूले च चतुरश्रं स्यादष्टाश्रं वा सुवृत्तकम् ॥ ४७ ॥
ऊर्ध्वे चोक्तवदाम्रे चामूलाग्रञ्चयं तरिम्(क्रमात्) ।
युक्त्योपर्युक्तवन्माने कुर्यादूर्ध्वे तु दण्डकम् ॥ ४८ ॥
व्यजनदण्डमानस्य लक्षणं वक्ष्यतेऽधुना ।
यत्तदङ्गुलमानेन षट्सप्ताङ्गुलमारभेत् ॥ ४९ ॥
द्वादशाङ्गलान्तं स्यान्मूलदण्डायतं भवेत् ।
एकं वाथ द्व्यङ्गुलं यथा संपरिकीर्तितम् ॥ ५० ॥
इत्युक्त(क्तं) मूलमग्रं च मध्ये किञ्चित्कृशान्वितम् ।
वृत्ताकारं च दण्डं स्यादग्रे च ह(हा)रितन्वितम् ॥ ५१ ॥
मूले च कुड्मलाकारं किञ्चित्पद्मासनान्वितम् ।
तदूर्ध्वे भ्रमदण्डं स्यान्मूलदण्डायतं भवेत् ॥ ५२ ॥
विस्तारैरुत्रिभागीकं चतुर्भागविशालकम् ।
तदग्रे हरिता(त)पद्मं किञ्चित्कुड्मलसंयुतम् ॥ ५३ ॥

v3.c24.s51.5

एवं व्यजनदण्डं स्याद् दारूजं लोहजमथवा ।
व्यजनं चर्मकारेण चर्म कुर्यात्तु(कृत्वा तु)योजयेत् ॥ ५४ ॥
व्यजनद्वयबहिर्देशे श्रीरूपाद्यैरलङ्कृतम् ।
वर्णीश्च लोहद्रव्येण लेखयेच्चोक्तवद् बुधः ॥ ५५ ॥
एवं तु व्यजनं प्रोक्तं दर्पणं वक्ष्यतेऽधुना ।
पञ्चषडङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ॥ ५६ ॥
एकविंशाङ्गुलान्तं च द्वाविंशत्यङ्गुलान्तकम् ।
एवं नवविधं प्रोक्तं दर्पणस्य विशालकम् ॥ ५७ ॥
यवतारीकमारभ्य यवतारेण वर्धनात् ।
यवतारं नवान्तं स्याद् दर्पणं बहु(ह)लं भवेत् ॥ ५८ ॥
दर्पणं सुवृत्तं स्याद्देशरु किञ्चिदुन्नतम् ।
निर्मलं दर्पणं मध्ये बाह्ये रेखाभिरावृतम् ॥ ५९ ॥
अपरे च लक्ष्मीमा(त्या)द्यैर्वल्यं(ल्ली भि)श्च विन्यसेत् ।
दर्पणस्य त्रिभागैकं मूले कीलायतं तथा ॥ ६० ॥
आयामं सहशान्तरं चार्धं पद्यान्तमेव हि ।
शेषं कीलायतं कुर्यात्तन्त्रिभागैकविस्तृतम् ॥ ६१ ॥
तन्मूलं षोडशांशं तु कीलकं तु विशालकम् ।
यथाफलं(लकं) यथायुक्त्या दर्पणं(ण)दण्डवत्क्रमात् ॥ ६२ ॥
दर्पणाम्बुजस्य कोणे तु कारयेत्कांसकारकैः ।
दारुजे लोहजे वापि तद्द्दढं कारयेत्सुधीः ॥ ६३ ॥
दर्पणस्य समं दीर्घं सपादामिकमेव वा ।
सार्धं त्रिपादमाधिक्यं तत्समाधिकमेव च ॥ ६४ ॥
दर्पणस्य विशाले तु चतुर्भागैकविस्तृतम् ।
मूले पद्मासनैर्युक्तं चाम्रे च फलकादिभिः ॥ ६५ ॥
कुर्यात्तु शिल्पिनः (ल्पौ च) प्राज्ञः सर्वालङ्कारसंयुतम् ।
एवं तु दर्पणं प्रोक्तं वर्यज्ञादुपलक्षणम् ॥ ६६ ॥
त्रिचतुर्मात्रमारभ्य द्व्यङ्गुलविवर्धनात् ।
नवपङ्क्त्यङ्गुलान्तं च विंशमात्रावसानकम् ॥ ६७ ॥

v3.c24.s51.6

पर्णमञ्जूषविस्तारं कन्यसादि त्रयं त्रयम् ।
पादाधिकमथाध्यर्धं पादोनद्विगुणान्तकम् ॥ ६८ ॥
तद्विस्तारसमोत्सेधं कुर्यात्तु चतुरश्रकम् ।
वृत्तं वृत्तायतं वापि यथा कांस्यैश्च लोहजैः ॥ ६९ ॥
पादमर्धाङ्गुलं वापि दारुजस्य मानं भवेत् ।
तदुत्सेधे त्रिचतुर्भागमेकाशेन वरन(विधान)कम् ॥ ७० ॥
एककोष्ठं द्विकोष्ठं वा त्रिकोष्ठं वाथ कल्पयेत् ।
यथाबलं यथायुक्त्या तथावन्ध्यायसेन च ॥ ७१ ॥
तदेव मध्यपोत्सेधं पादाधिकमेव वा ।
त्र्यर्धाधिकमेवं वा तैलमञ्जूषिकोन्नतम् ॥ ७२ ॥
शेषं तु पूर्ववत्कुर्याद्रक्षाकारविधानकम् ।
सर्वाभरणमञ्जूषं कुर्यादेवं तु वि[द्व]त्तमः ॥ ७३ ॥
एकहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
तद् द्विहस्तावसानं स्याद्वस्त्रमञ्जूषविस्तृतम् ॥ ७४ ॥
अथवा तद्वदन्तेन मानयेन्मानवित्तमः ।
तद्विस्तारसमोत्सेधं चतुराकार(रं) पूर्ववत् ॥ ७५ ॥
शेषं युक्त्या प्रकुर्वीत वस्त्रमञ्जूषकादि वै ।
देवानां मानुषाणां च डो(दो)लाया लक्षणं तत् ॥ ७६ ॥
वह्निकं च(करं) समारभ्य षट्षडङ्गुलवर्धनात् ।
एकविंशांघ्रियो(धं) पादं तुङ्गमष्टकरान्तकम् ॥ ७७ ॥
पञ्चषडङ्गुलमारभ्य ए[चै]कैकाङ्गुलवर्धनात् ।
सैकार्कमनुमात्रान्तं पादविस्तारमिष्यते ॥ ७८ ॥
पादानामुक्तवत्सर्वं यथाकारैरलिङ्गितम् ।
उक्तवद्द्वित्तिमानेन ए(चै)कभित्तिद्विभित्तियुक् ॥ ७९ ॥
तदूर्ध्वे वाजनं कुर्यात् पादपादं यथाबलम् ।
वाजने च द्विवलयं स्याद्भा(दा)यसेन बलावहम् ॥ ८० ॥
वितस्त्येकं समारभ्य ए(चै)कैक्रेन विवर्धनात् ।
एकविंशाङ्गुलान्तं स्यात् व(फ)लकं विस्तृतं भवेत् ॥ ८१ ॥

v3.c24.s51.7

वलयादाधिकमेवं च पादोने द्विगुण्णायतम् ।
द्विगुणान्तं तदायामं घनं युक्त्या च योजयेत् ॥ ८२ ॥

v3.c24.s51.8

पुरतः पृष्ठतो मध्ये पर्व(दर्प) णं भद्रसंयुतम् ।
पार्श्वयोर्वारणं(द्वारं) कुर्यात्(न्न) तस्याधोऽधं ससंयुतम् ॥ ८३ ॥
तस्याधो फलकैर्युक्तं सर्वालङ्कारसंयुतम् ।
आयसे नि(चा)र्गलं कुर्याद्योजयेद्ब्रह्ममेव वा ॥ ८४ ॥

v3.c24.s51.9

वस्त्रो(वास्तू) ध्वे चैकहस्तान्तं दो(दो) लाया फलकान्तकम् ।
तदूर्ध्वे वाज्रनान्तं स्यान्नि(र्र)र्गलायाममीरितम् ॥ ८५ ॥
नि(श्र) र्गलामे द्वयाग्रं स्यात्फलकावलयान्वितम् ।
दोलाया लक्षणं प्रोक्तं तुलालक्षणमुच्यते ॥ ८६ ॥

v3.c24.s51.10

हस्तद्वयं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
त्रिहस्तान्तं तुलायामं कन्यसाद्युत्तमान्तकम् ॥ ८७ ॥
अस्त्रप्रासाद् भूपार्दीन्सार्बभौमावसानकम्(कान्) ।
क्रमात्तु नवधा प्रोक्तं त्रिचतुर्मात्रविस्तृतम् ॥ ८८ ॥

v3.c24.s51.11

मध्ये चाग्रविशाले तु तत्तदंशेन हीनकम् ।
भ्राम्भ्याग्रं द्वयं कुर्याद्गप्रयोर्वलयान्वितम् ॥ ८९ ॥
दण्डायामं च मानेन मध्यजावा (जिह्वा) यतं तथा ।
दण्डतारं त्रिभागैकं जिह्वामूलविशालकम् ॥ ९० ॥

v3.c24.s51.12

तदष्टांशैकभागं वा षोडशांशोनमेव वा ।
तत्तदर्धं प्रमाणं वा तत्तत्रो (त्रि) द्वाद्विशालकम् ॥ ९१ ॥
अथवा सुचिनिभं कुर्यात्तन्मूलाग्रचयं(य) क्रमात् ।
तदर्ध बहु(वह) लं कुर्यात्तन्मूले छिद्रसंयुतम् ॥ ९२ ॥

v3.c24.s51.13

तत्पुरे(रः) पृष्ठ(पार्श्व)देशे तु कीलयेत्तोरणाङ्घ्रिकम् ।
तस्मात्तत्तोरणोत्सेधं जिह्वापादाधिकं भवेत् ॥ ९३ ॥
तोरणाग्रे तु (शमध्ये) बलयं लम्बनार्थं तु योजयेत् ।
जिह्वायामं (म) समं पत्त्रं (त्र) विस्तारं परिकीर्तितम् ॥ ९४ ॥

v3.c24.s51.14

किञ्चिन्निन्न(म्नं) तलं कुर्यात्सुवृत्ताधाङ्गुलं घनम् ।
तत्समं चास्य चाहं वा तत्पत्रे (चतुरिल्लिद्रै) ष्टकोष्ठरं ॥ ९५ ॥

v3.c24.s51.15

पत्रद्वयसमायुक्तं चायसेनेव कारयेत् ।
दार्विके चायसे वापि तुला(लां) युक्त्या च कारयेत् ॥ ९६ ॥
जिह्वां च तोरणं वापि सर्वथा लोहजं भवेत् ।
बन्धयेन्नि(दृ)र्गलैः पत्रैः(त्रे) द्विदण्डे चोभयात्मकौ ॥ ९७ ॥
तुलालक्ष्य(क्ष्य)मिदं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ।
भूपानां दक्षिणे हस्ते मध्यमा लक्ष्यमुच्यते ॥ ९८ ॥
पत्रतुल्यं(ङ्गं) युगाङ्गुल्यं पीठे तुङ्गद्वयाङ्गुलकम् ।
नालं द्वादशमात्रं स्यादायममिति कथ्यते ॥ ९९ ॥
पत्रतारं द्वयाङ्गुल्यं पीठतारं तथैव च ।
पत्रपृष्ठं(पीठं) तदर्थांशं वक्रतुण्डं तु निश्चितम् ॥ १०० ॥
नालतारा(रम)र्धमात्रं स्यात्पीठयुक्तं तुलां(नालं) घनम् ।
मूलं तु सूक्ष्मसूचिवत्कुर्यात्तद्विचक्षणः ॥ १०१ ॥
मूले च त्रित्रिमात्रे तु नालतारार्धं विस्तृतम् ।
तदूर्ध्वं च त्रिमात्रे तु त्रिधा विस्तृतं भवेत् ॥ १०२ ॥
सुवृत्त(त्तं) नालदेशो तु पत्रमूले तु कर्णयुक् ।
स्निग्धं च पुञ्जकैर्युक्तं हेमरेखैः(खाभिः) स्वलङ्कृतम् ॥ १०३ ॥
पत्रे तु ब्रह्मदैवत्यं(तं) पीठे तु विष्णुदैवतम् ।
नाले तु रुद्रदैवत्यं(तं) सूक्ष्मं (कणें) चैव सरस्वती ॥ १०४ ॥
एवं तु चाधिदैवत्यं(तं) कर्णेमेवं प्रकल्पयेत् ।
सर्वेषामपि नीलं(लं) च चलं वाप्यचलं भवेत् ॥ १०५ ॥
एकहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
साष्टाष्टपञ्चमात्रान्तं कन्यसादि त्रयं त्रयम् ॥ १०६ ॥
मृगनाभिविलाडस्य पञ्जरस्य विशालकम् ।
तदर्धं च त्रिपादं च तत्समं पादमा(म)धिकम् ॥ १०७ ॥
अत्यर्थे[को]न [च] तस्यैव शान्तिकादिशरांशकम् ।
हो(भौ)मात्मस्तारान्तं वा मस्तकान्तं शिखान्तकम् ॥ १०८ ॥
नवाह्वङ्गं समारभ्य द्विव्यङ्गुलविवर्धनात् ।
त्रयोविंशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम् ॥ १०९ ॥

v3.c24.s51.16

शुकपञ्जरविस्तारं नवधा परिकीर्तितम् ।
उत्सेधं पूर्ववत्कुर्यात्समग्रं चापि विस्तृतम् ॥ ११० ॥
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ।
त्रयोविंशाङ्गुलान्तं स्यान्नवधा कन्यसादिभिः ॥ १११ ॥
चातकस्य चकोरस्य पञ्जरस्य विशालकम् ।
विस्तारं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् ॥ ११२ ॥
आयाममिति हि प्रोक्तमुत्सेधं पूर्ववद् भवेत् ।
एतत्तु दण्डकाकारं मरालस्यापि योग्यकम् ॥ ११३ ॥
तदेव चतुरश्रं स्यात्क्रीडं पारावतस्य च ।
पञ्चविंशाङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥ ११४ ॥
सैकाष्टकनन्दमात्रान्तं कन्यसादि त्रयं त्रयम् ।
पञ्जरं नीलकण्ठस्य नवधा विस्तृतं भवेत् ॥ ११५ ॥
सममेवं विशालं स्यादुत्सेधं पूर्ववद् भवेत् ।
पञ्चाङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ११६ ॥
एकविंशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम् ।
कुञ्जरीयकुलालस्य नवधा विस्तृतं भवेत् ॥ ११७ ॥
उत्सेधं पूर्ववत्कुर्यात्समतारं समाश्रकम् ।
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ११८ ॥
त्रयोविंशाङ्गुलान्तं स्यात्कन्यसादीनि पूर्ववत् ।
विशालं नवधा प्रोक्तं खञ्जरीटस्य पञ्जरम् ॥ ११९ ॥
समाश्रं चतुरश्रं स्यादुत्सेधं पूर्ववद् भवेत् ।
पञ्चदशाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ॥ १२० ॥
एकाद(कविं)शाङ्गुलान्तं स्यान्नवधा कन्यसादिभिः ।
कुक्कुटस्य कुलालस्य विशालं तुङ्गं पूर्ववत् ॥ १२१ ॥
एकादशाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ।
सप्तविंशाङ्गुलान्तं च कन्यसादि त्रयं त्रयम् ॥ १२२ ॥
विशालं पूर्ववत्तं तु नकुलस्यापि पञ्जरम् ।
चटकस्य पञ्जरस्य तित्तिरीवोक्तवत्कुरु ॥ १२३ ॥

v3.c24.s51.17

नवाङ्गुलं समारभ्य पञ्चविंशाङ्गुलान्तकम् ।
पूर्ववन्नवधा प्रोक्तं विशालं तुङ्गं पूर्ववत् ॥ १२४ ॥
विस्तारं तु समाश्रं स्याद् गोधारैः(रस्य) पञ्जरान्वितम् ।
सार्धहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ॥ १२५ ॥
अर्धाधिकं त्रिहस्तान्तं कन्यसादि त्रयं त्रयम् ।
नवधा व्याघ्रनीडं स्याद्विस्ता परिकीर्तितम् ॥ १२६ ॥
उत्सेधं पूर्ववत्कुर्यात्समाथ्रं तद्विशालकम् ।
चतुरश्रैकभित्तिः स्याच्चतुःस्तम्भसमन्वितम् ॥ १२७ ॥
मध्यद्वारं तु संकल्प्य कवाटं चैकमेव च ।
उत्सेधे तु षडंशं स्यात्पादुकं चैकभागिकम् ॥ १२८ ॥
पादोर्ध्वं तु युगांशं स्यादेकांशं चोर्ध्वपट्टिका ।
अथवाष्टांशुतुङ्गे तु चैकांशं पादुकोदयम् ॥ १२९ ॥
षड्भागं पादतुङ्गं स्यादेकांशमूर्ध्वपट्टिका ।
चतुष्कं च चतुर्दारु पादुकं चोर्ध्वपट्टिका ॥ १३० ॥
कुर्यात्कर्कर्करि(रिं) कोष्ठे तु पादमूलाप्र(ग्रे) योजयेत् ।
ऊर्ध्वाधो निर्गमं शूले तिर्यङ्कीलं प्रयोजयेत् ॥ १३१ ॥
एकद्वित्रिचतुर्मात्रं पादविष्कम्भमिष्यते ।
द्वित्रिवेदचतुष्पञ्चषट्सप्ताङ्गुलकं तथा ॥ १३२ ॥
पट्टिकोपानविस्तारं वद्यायुक्त्या प्रयोजयेत् ।
ऊर्ध्वाधश्च चतुर्दिक्षु वातायनं समुद्भवत् ॥ १३३ ॥
तरङ्गे(तुङ्गे च) वेत्रसंयुक्तं कुञ्जराद्यैरङ्कृतम् ।
पादानां चतुरश्रं वा चोक्तवत्समलङ्कृतम् ॥ १३४ ॥
तदेव चोर्ध्वदेशे तु कृत्वा चक्राकृतिस्तथा ।
सर्वालङ्कारसंयुक्तं कुर्यात्तु सर्वनीडकम् ॥ १३५ ॥
चातकस्य चकोरस्य दण्डकाकृतिवद् भवेत् ।
द्वितीये(तय)चतुष्पञ्च वासं कुर्यात्तु दीर्घके ॥ १३६ ॥
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ।
शुकस्य पञ्जरे तुङ्गे चाष्टभाग (गं) विभाजिते ॥ १३७ ॥

v3.c24.s51.18

एकांशं पादुकं चैव वेदांशं पादतुङ्गकम् ।
एकांशं पट्टिकोत्सेधं द्विभागं चोर्ध्वचूलिका ॥ १३८ ॥
शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुतम् ।
तदेव मुखभद्रं स्यात्तत्समार्धं त्रिपादकम् ॥ १३६ ॥
पूर्वं च द्वित्रिपादं स्यान्मत्तवारणसंयुतम् ।
नीचितारे चतुर्भागमेकेनावृतलिन्द्र(वालिन्द)कम् ॥ १४० ॥
परितस्तु लुपायुक्तं खण्डहर्म्यादिमण्डितम् ।
तदेव चोर्ध्वकूटं वा पञ्चांशाधिकोदयम् ॥ १४१ ॥
द्विभागेन शिखातुङ्गं त्रिभागं शिखरोदयम् ।
चतुर्दिक्षु चतुर्नासि सर्वालङ्कारसंयुतम् ॥ १४२ ॥
चतुर्दिक्षु सभद्रं वा चैकंशोन निम्नकम् ।
नीडतारं त्रिभागैकं चतुर्भागत्रिभागिकम् ॥ १४३ ॥
पञ्चभागत्रिभागं वा भद्रविस्तारमेव च ।
सर्वालङ्कारसंयुक्तं शेषं प्रागुक्तवन्नयेत् ॥ १४४ ॥
एवं तु शुकनीडं स्यादाथवा तत्पुरोक्तवत् ।
देवभूसुरभूपानां वैश्यशूद्रस्य योग्यकम् ॥ १४५ ॥

v3.c24.s51.19

पादनूपुरकिरीटमन्त्रि(मुद्रि)का
कुण्डलं च वलयं च मेखलम्(ला) ।
हारकङ्कणशिरोविभूषणम्
किङ्किणीवलयकर्णभूषणम् ॥ २४६ ॥
केयूरतातङ्कविशेषकं च
कर्णा(र्णां) च चूडामणिवालपट्टम् ।
नक्षत्रमालाभ(ला)पि चार्धहारम्
सुवर्णसूत्रं परितः स्तनाभ्याम् ॥ २४७॥
रत्नमाणिकदुकूलवी(ची)रयुक्
स्वर्णकञ्चुकहिरण्यमालिका ।
लम्बहारमपि चूलिकादिभिः
पूरिमादिमपि केशकूटकम् ॥ २४८ ॥

v3.c24.s51.20

ब्रह्माविष्णुमहेशराक्रसकलैः दिक्पालकैः किन्नरैः
गन्धर्बैरपि सर्वदेवनिकरैः दुर्गाशचीगौरीभिः ।
चामुण्डादि(दैः) सरस्वतीगणपतेः षाण्मातुरस्यापि तत्
संख्यातं सकलं विभूषणगणा [नि] नित्यादिनैमित्तिकैः ॥ २४९ ॥

v3.c24.s51.21

राजाधिराजैरपि राजसर्वैः
वर्गेश्च तस्तै(त्रिभि)रपि देवदेन्यः ।
विहङ्गमः(मानां) पञ्चरमेवमुक्तम्
कृतं श्रियेतान्यदलक्षिम(च्मी) हेतुः ॥ २५० ॥

v3.c24.s51.22

इति मानमारे वास्तुशास्त्रे भूषणलक्षणविधानं नाम पञ्चाशदध्यायः ॥