Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.2
- Language
- English
v3.c24.s51.2
बाहुमूले तु वलयं दाम कच्छावसानकम् ।
बाहुमा(भू) षावलम्बं स्यात्केयूरकटकान्वितम् ॥ १२ ॥
बाह्वायामस्य मध्ये तु केयूरकटकान्वितम् ।
तदूर्ध्वं पूरिमं कुर्यात्कर्णे मकरभूषणम् ॥ १३ ॥
कटिसूत्रं तु संयुक्तं कटिप्रस्थ(प्रान्ते) सपट्टिका ।
मेढ्रान्तं पट्टिकान्तं स्यात्तन्मध्ये सिंहवक्त्रवत् ॥ १४ ॥
अथवा रत्नबन्धं स्यात्स्यादामेढ्र विनिर्गमम् ।
निर्व्य(नीलं) च पश्चपार्श्वे तु मध्ये दामचलान्वितम् ॥ १५ ॥
पीताम्बरदुकूलं च नलकान्तप्रलम्बनम् ।
अथवा जानुपर्यन्तं चर्मचीरं च वाससम् ॥ १६ ॥
जङ्घादिवलयोपेतं पादजालादिभूषणम् ।
विहाय तर्जनीं सर्वैर(वैश्च)ङ्गुलैर(लेष्वा)ङ्गुलीयकम् ॥ १७ ॥
ऊर्ध्वकाये च हारादि पार्श्वयोर्वात (तु) लम्बनम् ।
मध्ये दामं(म) च लम्बं (म्बितं) स्याच्छन्नवीरमिति स्मृतम् ॥ १८ ॥
इत्युक्तं भूषणं देवेश्व(वानां च)क्रवर्तिरि(न इ)ति स्मृतम् ।
चक्रव(र्तिनं) स्तद्वद्विष्णोर्वनमाला विभूषित(पद्मा)म् ॥ १९ ॥
अधिराज नरेन्द्राम्यां(न्द्राभ्योः) विनासूत्रोपरिस्तनी ।
अन्येषां सर्वभूपानां केयूरकटकं विना ॥ २० ॥
सर्वेषामपि देवानां गुल्फस्योपरिदेशके ।
भुजङ्गकटकोपेतं पादनूपुरसंयुतम् ॥ २१ ॥
कर्णं विभूषणं कुर्यान्मकराङ्कितकुण्डलम् ।
अथवा स्वर्णताटङ्कौ शेषं तु पूर्ववद्भवेत् ॥ २२ ॥
अङ्गभूषणमित्युक्तं बहिर्भूषणमुच्यते ।
दीपखण्डं व्यजनं च दर्पणं चैव लक्षणम् ॥ २३ ॥
पर्यङ्कमञ्चकादीनां दोलाया लक्षणं तथा ।
भूपानां च तुलाभारतुलालक्षणमुच्यते ॥ २४ ॥
वत्सरा रम्भलेखार्थं पत्रं च कर्णलक्षणम् ।
मृगनामिविडाळस्य शुकस्यापि च पञ्जरम् ॥ २५ ॥