Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.16

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.16

Language
English

v3.c24.s51.16

शुकपञ्जरविस्तारं नवधा परिकीर्तितम् ।
उत्सेधं पूर्ववत्कुर्यात्समग्रं चापि विस्तृतम् ॥ ११० ॥
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ।
त्रयोविंशाङ्गुलान्तं स्यान्नवधा कन्यसादिभिः ॥ १११ ॥
चातकस्य चकोरस्य पञ्जरस्य विशालकम् ।
विस्तारं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् ॥ ११२ ॥
आयाममिति हि प्रोक्तमुत्सेधं पूर्ववद् भवेत् ।
एतत्तु दण्डकाकारं मरालस्यापि योग्यकम् ॥ ११३ ॥
तदेव चतुरश्रं स्यात्क्रीडं पारावतस्य च ।
पञ्चविंशाङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥ ११४ ॥
सैकाष्टकनन्दमात्रान्तं कन्यसादि त्रयं त्रयम् ।
पञ्जरं नीलकण्ठस्य नवधा विस्तृतं भवेत् ॥ ११५ ॥
सममेवं विशालं स्यादुत्सेधं पूर्ववद् भवेत् ।
पञ्चाङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ११६ ॥
एकविंशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम् ।
कुञ्जरीयकुलालस्य नवधा विस्तृतं भवेत् ॥ ११७ ॥
उत्सेधं पूर्ववत्कुर्यात्समतारं समाश्रकम् ।
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ११८ ॥
त्रयोविंशाङ्गुलान्तं स्यात्कन्यसादीनि पूर्ववत् ।
विशालं नवधा प्रोक्तं खञ्जरीटस्य पञ्जरम् ॥ ११९ ॥
समाश्रं चतुरश्रं स्यादुत्सेधं पूर्ववद् भवेत् ।
पञ्चदशाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ॥ १२० ॥
एकाद(कविं)शाङ्गुलान्तं स्यान्नवधा कन्यसादिभिः ।
कुक्कुटस्य कुलालस्य विशालं तुङ्गं पूर्ववत् ॥ १२१ ॥
एकादशाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ।
सप्तविंशाङ्गुलान्तं च कन्यसादि त्रयं त्रयम् ॥ १२२ ॥
विशालं पूर्ववत्तं तु नकुलस्यापि पञ्जरम् ।
चटकस्य पञ्जरस्य तित्तिरीवोक्तवत्कुरु ॥ १२३ ॥