Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.6
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.6
- Language
- English
v3.c24.s51.6
पर्णमञ्जूषविस्तारं कन्यसादि त्रयं त्रयम् ।
पादाधिकमथाध्यर्धं पादोनद्विगुणान्तकम् ॥ ६८ ॥
तद्विस्तारसमोत्सेधं कुर्यात्तु चतुरश्रकम् ।
वृत्तं वृत्तायतं वापि यथा कांस्यैश्च लोहजैः ॥ ६९ ॥
पादमर्धाङ्गुलं वापि दारुजस्य मानं भवेत् ।
तदुत्सेधे त्रिचतुर्भागमेकाशेन वरन(विधान)कम् ॥ ७० ॥
एककोष्ठं द्विकोष्ठं वा त्रिकोष्ठं वाथ कल्पयेत् ।
यथाबलं यथायुक्त्या तथावन्ध्यायसेन च ॥ ७१ ॥
तदेव मध्यपोत्सेधं पादाधिकमेव वा ।
त्र्यर्धाधिकमेवं वा तैलमञ्जूषिकोन्नतम् ॥ ७२ ॥
शेषं तु पूर्ववत्कुर्याद्रक्षाकारविधानकम् ।
सर्वाभरणमञ्जूषं कुर्यादेवं तु वि[द्व]त्तमः ॥ ७३ ॥
एकहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
तद् द्विहस्तावसानं स्याद्वस्त्रमञ्जूषविस्तृतम् ॥ ७४ ॥
अथवा तद्वदन्तेन मानयेन्मानवित्तमः ।
तद्विस्तारसमोत्सेधं चतुराकार(रं) पूर्ववत् ॥ ७५ ॥
शेषं युक्त्या प्रकुर्वीत वस्त्रमञ्जूषकादि वै ।
देवानां मानुषाणां च डो(दो)लाया लक्षणं तत् ॥ ७६ ॥
वह्निकं च(करं) समारभ्य षट्षडङ्गुलवर्धनात् ।
एकविंशांघ्रियो(धं) पादं तुङ्गमष्टकरान्तकम् ॥ ७७ ॥
पञ्चषडङ्गुलमारभ्य ए[चै]कैकाङ्गुलवर्धनात् ।
सैकार्कमनुमात्रान्तं पादविस्तारमिष्यते ॥ ७८ ॥
पादानामुक्तवत्सर्वं यथाकारैरलिङ्गितम् ।
उक्तवद्द्वित्तिमानेन ए(चै)कभित्तिद्विभित्तियुक् ॥ ७९ ॥
तदूर्ध्वे वाजनं कुर्यात् पादपादं यथाबलम् ।
वाजने च द्विवलयं स्याद्भा(दा)यसेन बलावहम् ॥ ८० ॥
वितस्त्येकं समारभ्य ए(चै)कैक्रेन विवर्धनात् ।
एकविंशाङ्गुलान्तं स्यात् व(फ)लकं विस्तृतं भवेत् ॥ ८१ ॥