Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.5
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.5
- Language
- English
v3.c24.s51.5
एवं व्यजनदण्डं स्याद् दारूजं लोहजमथवा ।
व्यजनं चर्मकारेण चर्म कुर्यात्तु(कृत्वा तु)योजयेत् ॥ ५४ ॥
व्यजनद्वयबहिर्देशे श्रीरूपाद्यैरलङ्कृतम् ।
वर्णीश्च लोहद्रव्येण लेखयेच्चोक्तवद् बुधः ॥ ५५ ॥
एवं तु व्यजनं प्रोक्तं दर्पणं वक्ष्यतेऽधुना ।
पञ्चषडङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ॥ ५६ ॥
एकविंशाङ्गुलान्तं च द्वाविंशत्यङ्गुलान्तकम् ।
एवं नवविधं प्रोक्तं दर्पणस्य विशालकम् ॥ ५७ ॥
यवतारीकमारभ्य यवतारेण वर्धनात् ।
यवतारं नवान्तं स्याद् दर्पणं बहु(ह)लं भवेत् ॥ ५८ ॥
दर्पणं सुवृत्तं स्याद्देशरु किञ्चिदुन्नतम् ।
निर्मलं दर्पणं मध्ये बाह्ये रेखाभिरावृतम् ॥ ५९ ॥
अपरे च लक्ष्मीमा(त्या)द्यैर्वल्यं(ल्ली भि)श्च विन्यसेत् ।
दर्पणस्य त्रिभागैकं मूले कीलायतं तथा ॥ ६० ॥
आयामं सहशान्तरं चार्धं पद्यान्तमेव हि ।
शेषं कीलायतं कुर्यात्तन्त्रिभागैकविस्तृतम् ॥ ६१ ॥
तन्मूलं षोडशांशं तु कीलकं तु विशालकम् ।
यथाफलं(लकं) यथायुक्त्या दर्पणं(ण)दण्डवत्क्रमात् ॥ ६२ ॥
दर्पणाम्बुजस्य कोणे तु कारयेत्कांसकारकैः ।
दारुजे लोहजे वापि तद्द्दढं कारयेत्सुधीः ॥ ६३ ॥
दर्पणस्य समं दीर्घं सपादामिकमेव वा ।
सार्धं त्रिपादमाधिक्यं तत्समाधिकमेव च ॥ ६४ ॥
दर्पणस्य विशाले तु चतुर्भागैकविस्तृतम् ।
मूले पद्मासनैर्युक्तं चाम्रे च फलकादिभिः ॥ ६५ ॥
कुर्यात्तु शिल्पिनः (ल्पौ च) प्राज्ञः सर्वालङ्कारसंयुतम् ।
एवं तु दर्पणं प्रोक्तं वर्यज्ञादुपलक्षणम् ॥ ६६ ॥
त्रिचतुर्मात्रमारभ्य द्व्यङ्गुलविवर्धनात् ।
नवपङ्क्त्यङ्गुलान्तं च विंशमात्रावसानकम् ॥ ६७ ॥