Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s52: त्रिमूर्तिलक्षणम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s52
- Language
- English
त्रिमूर्तिलक्षणम्
v3.c24.s52.1
ब्रह्माविष्णुमहेशानां लक्षणं वक्ष्यतेऽधुना ।
हिरण्यरजतेनैव ताम्रेणैव शिले वापि(लया वा) ॥ १ ॥
दारुजे[न] सुधे वापि[धया च] शर्कराभासमृत्तिका(द्विश्व) ।
एतैस्तु नवघाद्रव्यैः चो(ओ)त्तमादि त्रयं त्रयम् ॥ २ ॥
चलं चाप्यचलं चापि नवद्रव्यैस्तु निर्मितः ।
लोहजैर्मृत्(श्व) सुधा चै(धयै)व शर्कराभासमृत्तिका(द्विश्च) ॥ ३ ॥
चलद्रव्यमिति प्रोक्तमन्येषां च(चा)चलं विदुः ।
चित्राङ्गमर्धचित्राङ्गमाभासाङ्गं त्रिधोच्यते ॥ ४ ॥
सर्वाङ्गं द्रव्य(दृश्य)मानं सञ्चित्रमेवं प्रकथ्यते ।
अर्धाङ्गद्रव्य(दृश्य)मानं च तदर्धचित्रमिति स्मृतम् ॥ ५ ॥
अर्धार्धदर्शनं(दृश्य)मानमाभासमिति कथ्यते ।
आभासं पञ्चवर्णेन पट्टभित्त्येव(भित्तौ वा) कल्पयेत् ॥ ६ ॥
चित्रं यत्तूत्तमं प्रोक्तमर्धचित्रं तु मध्यमम् ।
आभासमधमं प्रोक्तं कुर्याद्देवं तु सर्वदा ॥ ७ ॥
उत्तमं सर्वसिद्धिः(द्धिं) स्यान्मध्यमं भोगमोक्षकम् ।
अधमं भोगसिद्धिः(द्धिं) स्यादीश्वरेणैव कीर्तितम् ॥ ८ ॥
स्थावरं जङ्गमं चैव विविधं बेरमुच्यते ।
जङ्गमं चोत्सवं भवेत्सर्वं(वं) स्थावरमिष्यते ॥ ६ ॥
उत्तमं लोहजं बिम्बं पीठाभासं तु चोत्स(त्त)मम् ।
स्थानकं चासना(नं) शयनं वैशाखं वैष्णवं तथा ॥ १० ॥
मृत्तादिसर्वबेराणां द्रव्यमुक्तं सनातनम् ।
तत्तद्द्रव्यैस्तु बिम्बानां भिन्नपीठं प्रकल्पयेत् ॥ ११ ॥
v3.c24.s52.2
लम्बासने च शयने शिलापीठं तु भिन्नकम् ।
एककाले कृतं सर्वं सुधामृत्कटशर्करैः ॥ १२ ॥
बेराणां द्रव्यमित्युक्तं मूर्त्तिध्यानं प्रवक्ष्यते ।
चतुर्भुजं चतुर्वक्त्रं द्विपादं चाष्टलोचनम् ॥ १३ ॥
अष्टकर्णसमायुक्तं तनुश्चैकाकृतिस्तथा ।
उत्तमं दशतालेन मानयेत्स्वङ्गमानकम् ॥ १४ ॥
स्थानकं चासनं वापि चीरवे(राम्ब)रधरं तथा ।
वरदाभयहस्तं च जटामकुटमण्डितम् ॥ १५ ॥
कुण्डिका चाक्षमाला च वामे वामे करे क्रमात् ।
स्रुक्स्रुवधारशं वापि प्राग्वरदाभयान्वितम् ॥ १६ ॥
मकरलाञ्छितं पुष्पं कुण्डलं वाथ कर्णयोः ।
यज्ञसूत्रोत्तरीयादि मात्रादोदरबन्धनम् ॥ १७ ॥
हारोपग्रीवसंयुक्तं बाहुमालाविभूषितम् ।
केयूरकटकाद्यैश्च कुर्यात्तु मणिबन्धनम् ॥ १८ ॥
कटकत्रयसंयुक्तं नलका(क) कटकान्वितम् ।
कटिसूत्रादिपट्टं स्यान्नोन्यं चलनसंयुतम् ॥ १९ ॥
रत्नाङ्गुलीयकौ हस्तौ पादं जालसरत्नकम् ।
ललाटे वृत्ततिलकं स्याच्चन्दनागुरुमेव च ॥ २० ॥
सर्वाङ्गं हेमवर्णं स्यान्नलकान्तं तु चीरयुक् ।
पार्श्वयोः शक्तिकोपेतं दक्षिणे तु सरस्वती ॥ २१ ॥
वामपार्श्वे तु सावित्री सर्वाभरणभूषितम् ।
एवं पितामहं प्रोक्तं कुर्याच्छास्त्रविद्बुधः ॥ २२ ॥
चतुर्भुजं द्विनेत्रं च किरीटमकुटान्वितम् ।
पीताम्बरधरं युक्तं श्यामवर्णाङ्गशोभितम् ॥ २३ ॥
सर्वे(र्वे)वचःस्थले कुर्यात्तदूर्ध्वे श्रीवत्सलाञ्छनम् ।
उत्तमं(म)दशतालेन चाङ्गमानं च मानयेत् ॥ २४ ॥
कटकं वा गदाधा(ध)रं चोर्व्यामाश्रितमेव वा ।
अथवा वरदहस्तं स्यात्पुरतो वामहस्तके ॥ २५ ॥
v3.c24.s52.3
दक्षिणे त्वभयं पूर्वं सव्ये चापर(रे) चक्रयुक् ।
अपरे वामहस्ते तु पाञ्चजन्यावधारयम् ॥ २६ ॥
तत्समं कर्णपत्रं स्यात्कुर्यान्मकरकुण्डलम् ।
प्रसन्नवदनं तुङ्गं नासि दीर्घाक्षिशोभितम् ॥ २७ ॥
हारोपग्रीवसंयुक्तं यज्ञसूत्रोत्तरीयकम् ।
रत्नोदरबन्धं स्याद् बाहुमालाविभूषितम् ॥ २८ ॥
कटकं कटिसूत्रं च केयूरं रत्नपूरितम् ।
रत्नाङ्गुलोयकैर्युक्तं पादजालविभूषितम् ॥ २९॥
नलकान्तं चलान्तं स्यात्पीताम्बरविलम्बनम् ।
शिरश्चक्रं शिरःपृष्ठे युक्तं सर्वाङ्गभूषणम् ॥ ३० ॥
द्वयोर्जङ्घावसाने स्याद् वनमालामनोहरम् ।
एवं तु विष्णुमूर्तिः स्याच्छक्तियुतं(क्ता) तु पार्श्वयोः ॥ ३१ ॥
त्रि(श्री)भूमिं दक्षिणे वामे स्थावरे जङ्गमेऽपि वा ।
कुर्यादासनं वापि स्थानकं चापिमे (ए)व च ॥ ३२ ॥
चतुर्भुजं त्रिशो(ने)त्रं च जटामकुटमण्डितम् ।
व्याघ्रचर्माम्बरं जानु चो(नोरु)र्व्वे च समलङ्कृतम् ॥ ३३ ॥
नीव्याञ्चलं च संयुक्तं रक्तवस्त्राङ्गशोभितम् ।
हारोपग्रीववक्षस्तु साल(कपाल)मालावलम्बनम् ॥ ३४ ॥
करोटि(रत्न)रत्नबन्धं स्याद् रुद्रबन्धमथापि वा ।
पत्रोदरं च बन्धं वा रत्नोदरनिबन्धनम् ॥ ३५ ॥
कटकं कटिसूत्रं स्यात्केयूरं पूरिमान्वितम् ।
बाहुमूला(लम)भिदामैश्च सर्वाभरणभूषितम् ॥ ३६ ॥
वामे तु लम्बपत्रं स्यादवामे [म]करकुण्डलम् ।
प्राचभयहस्तं सर्वै वरदं वामहस्तके ॥ ३७॥
अपरे वामसव्ये तु हरिखाद्रङ्कुशारखम् ।
मकुटं वामपार्श्वे तु चन्द्ररेखासमन्वितम् ॥ ३८ ॥
दक्षिणे चार्कपुष्पैश्च नागं गङ्गा जटान्तरे ।
दूर्वाभिः सुवर्णैसिन्दुरं पुष्करं स्यान्मकुटान्तरे ॥ ३९ ॥
v3.c24.s52.4
मध्ये चान्वितवक्त्रं स्याल्ललाटे चैकनेत्रयुक् ।
ग्रीवस्य वामपार्श्वे तु कालकूटसमन्वितम् ॥ ४० ॥
यज्ञसूत्रोत्तरीयं च सर्वरत्ना(त्नम्)ङ्गुलीयकै ।
स्थानकं चासनं वापि पाद(दं) नूपुरशोभितम् ॥ ४१ ॥
एवं तु रुद्रमूर्तिः स्याद् वामभागे तु पार्वती ।
उत्तमं(म)दशतालेन मानयेत्खङ्गुमानकम् ॥ ४२ ॥
देवीनामपि सर्वेषां मध्यमं दशतालकम् ।
पद्मपीठं महापीठं त्रिमूर्तीनां च योजयेत् ॥ ४३ ॥
प्रभाव(पा च) तोरणं वापि कल्पवृक्षं च संयुतम् ।
एवं तु रुद्रविष्णूनां(ष्णोः) कुर्यात्तु विधिवत्ततः ॥ ४४ ॥
सर्वालङ्कारसंयुक्तं देवं ध्यात्वा त्रिमूर्तिनम् ।
अन्यान्य(न्यम)नुक्तं सर्वेषां शास्त्रमार्गेण योजयेत् ॥ ४५ ॥
उत्तमं(म)दशतालवशात्तु यत्त
ब्रह्माविष्णुशिवसकलाङ्गकैः ।
स्थावरे च जङ्गमकै [यदुकं]
शिल्पिभिः कुरु ताक्त(चोक्तं) मुनिवरैः ॥ ४६ ॥
v3.c24.s52.5
इति मानमारे वास्तुशास्त्रे त्रिमूर्तिलक्षणविधानं नाम एकपञ्चाशदध्यायः ॥
Linked texts (1)
- Mānasāra — Sanskrit