Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s52.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s52.1
- Language
- English
v3.c24.s52.1
ब्रह्माविष्णुमहेशानां लक्षणं वक्ष्यतेऽधुना ।
हिरण्यरजतेनैव ताम्रेणैव शिले वापि(लया वा) ॥ १ ॥
दारुजे[न] सुधे वापि[धया च] शर्कराभासमृत्तिका(द्विश्व) ।
एतैस्तु नवघाद्रव्यैः चो(ओ)त्तमादि त्रयं त्रयम् ॥ २ ॥
चलं चाप्यचलं चापि नवद्रव्यैस्तु निर्मितः ।
लोहजैर्मृत्(श्व) सुधा चै(धयै)व शर्कराभासमृत्तिका(द्विश्च) ॥ ३ ॥
चलद्रव्यमिति प्रोक्तमन्येषां च(चा)चलं विदुः ।
चित्राङ्गमर्धचित्राङ्गमाभासाङ्गं त्रिधोच्यते ॥ ४ ॥
सर्वाङ्गं द्रव्य(दृश्य)मानं सञ्चित्रमेवं प्रकथ्यते ।
अर्धाङ्गद्रव्य(दृश्य)मानं च तदर्धचित्रमिति स्मृतम् ॥ ५ ॥
अर्धार्धदर्शनं(दृश्य)मानमाभासमिति कथ्यते ।
आभासं पञ्चवर्णेन पट्टभित्त्येव(भित्तौ वा) कल्पयेत् ॥ ६ ॥
चित्रं यत्तूत्तमं प्रोक्तमर्धचित्रं तु मध्यमम् ।
आभासमधमं प्रोक्तं कुर्याद्देवं तु सर्वदा ॥ ७ ॥
उत्तमं सर्वसिद्धिः(द्धिं) स्यान्मध्यमं भोगमोक्षकम् ।
अधमं भोगसिद्धिः(द्धिं) स्यादीश्वरेणैव कीर्तितम् ॥ ८ ॥
स्थावरं जङ्गमं चैव विविधं बेरमुच्यते ।
जङ्गमं चोत्सवं भवेत्सर्वं(वं) स्थावरमिष्यते ॥ ६ ॥
उत्तमं लोहजं बिम्बं पीठाभासं तु चोत्स(त्त)मम् ।
स्थानकं चासना(नं) शयनं वैशाखं वैष्णवं तथा ॥ १० ॥
मृत्तादिसर्वबेराणां द्रव्यमुक्तं सनातनम् ।
तत्तद्द्रव्यैस्तु बिम्बानां भिन्नपीठं प्रकल्पयेत् ॥ ११ ॥