Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s52.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s52.2

Language
English

v3.c24.s52.2

लम्बासने च शयने शिलापीठं तु भिन्नकम् ।
एककाले कृतं सर्वं सुधामृत्कटशर्करैः ॥ १२ ॥
बेराणां द्रव्यमित्युक्तं मूर्त्तिध्यानं प्रवक्ष्यते ।
चतुर्भुजं चतुर्वक्त्रं द्विपादं चाष्टलोचनम् ॥ १३ ॥
अष्टकर्णसमायुक्तं तनुश्चैकाकृतिस्तथा ।
उत्तमं दशतालेन मानयेत्स्वङ्गमानकम् ॥ १४ ॥
स्थानकं चासनं वापि चीरवे(राम्ब)रधरं तथा ।
वरदाभयहस्तं च जटामकुटमण्डितम् ॥ १५ ॥
कुण्डिका चाक्षमाला च वामे वामे करे क्रमात् ।
स्रुक्स्रुवधारशं वापि प्राग्वरदाभयान्वितम् ॥ १६ ॥
मकरलाञ्छितं पुष्पं कुण्डलं वाथ कर्णयोः ।
यज्ञसूत्रोत्तरीयादि मात्रादोदरबन्धनम् ॥ १७ ॥
हारोपग्रीवसंयुक्तं बाहुमालाविभूषितम् ।
केयूरकटकाद्यैश्च कुर्यात्तु मणिबन्धनम् ॥ १८ ॥
कटकत्रयसंयुक्तं नलका(क) कटकान्वितम् ।
कटिसूत्रादिपट्टं स्यान्नोन्यं चलनसंयुतम् ॥ १९ ॥
रत्नाङ्गुलीयकौ हस्तौ पादं जालसरत्नकम् ।
ललाटे वृत्ततिलकं स्याच्चन्दनागुरुमेव च ॥ २० ॥
सर्वाङ्गं हेमवर्णं स्यान्नलकान्तं तु चीरयुक् ।
पार्श्वयोः शक्तिकोपेतं दक्षिणे तु सरस्वती ॥ २१ ॥
वामपार्श्वे तु सावित्री सर्वाभरणभूषितम् ।
एवं पितामहं प्रोक्तं कुर्याच्छास्त्रविद्बुधः ॥ २२ ॥
चतुर्भुजं द्विनेत्रं च किरीटमकुटान्वितम् ।
पीताम्बरधरं युक्तं श्यामवर्णाङ्गशोभितम् ॥ २३ ॥
सर्वे(र्वे)वचःस्थले कुर्यात्तदूर्ध्वे श्रीवत्सलाञ्छनम् ।
उत्तमं(म)दशतालेन चाङ्गमानं च मानयेत् ॥ २४ ॥
कटकं वा गदाधा(ध)रं चोर्व्यामाश्रितमेव वा ।
अथवा वरदहस्तं स्यात्पुरतो वामहस्तके ॥ २५ ॥