Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s52.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s52.3
- Language
- English
v3.c24.s52.3
दक्षिणे त्वभयं पूर्वं सव्ये चापर(रे) चक्रयुक् ।
अपरे वामहस्ते तु पाञ्चजन्यावधारयम् ॥ २६ ॥
तत्समं कर्णपत्रं स्यात्कुर्यान्मकरकुण्डलम् ।
प्रसन्नवदनं तुङ्गं नासि दीर्घाक्षिशोभितम् ॥ २७ ॥
हारोपग्रीवसंयुक्तं यज्ञसूत्रोत्तरीयकम् ।
रत्नोदरबन्धं स्याद् बाहुमालाविभूषितम् ॥ २८ ॥
कटकं कटिसूत्रं च केयूरं रत्नपूरितम् ।
रत्नाङ्गुलोयकैर्युक्तं पादजालविभूषितम् ॥ २९॥
नलकान्तं चलान्तं स्यात्पीताम्बरविलम्बनम् ।
शिरश्चक्रं शिरःपृष्ठे युक्तं सर्वाङ्गभूषणम् ॥ ३० ॥
द्वयोर्जङ्घावसाने स्याद् वनमालामनोहरम् ।
एवं तु विष्णुमूर्तिः स्याच्छक्तियुतं(क्ता) तु पार्श्वयोः ॥ ३१ ॥
त्रि(श्री)भूमिं दक्षिणे वामे स्थावरे जङ्गमेऽपि वा ।
कुर्यादासनं वापि स्थानकं चापिमे (ए)व च ॥ ३२ ॥
चतुर्भुजं त्रिशो(ने)त्रं च जटामकुटमण्डितम् ।
व्याघ्रचर्माम्बरं जानु चो(नोरु)र्व्वे च समलङ्कृतम् ॥ ३३ ॥
नीव्याञ्चलं च संयुक्तं रक्तवस्त्राङ्गशोभितम् ।
हारोपग्रीववक्षस्तु साल(कपाल)मालावलम्बनम् ॥ ३४ ॥
करोटि(रत्न)रत्नबन्धं स्याद् रुद्रबन्धमथापि वा ।
पत्रोदरं च बन्धं वा रत्नोदरनिबन्धनम् ॥ ३५ ॥
कटकं कटिसूत्रं स्यात्केयूरं पूरिमान्वितम् ।
बाहुमूला(लम)भिदामैश्च सर्वाभरणभूषितम् ॥ ३६ ॥
वामे तु लम्बपत्रं स्यादवामे [म]करकुण्डलम् ।
प्राचभयहस्तं सर्वै वरदं वामहस्तके ॥ ३७॥
अपरे वामसव्ये तु हरिखाद्रङ्कुशारखम् ।
मकुटं वामपार्श्वे तु चन्द्ररेखासमन्वितम् ॥ ३८ ॥
दक्षिणे चार्कपुष्पैश्च नागं गङ्गा जटान्तरे ।
दूर्वाभिः सुवर्णैसिन्दुरं पुष्करं स्यान्मकुटान्तरे ॥ ३९ ॥