Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.1
- Language
- English
v3.c24.s53.1
लिङ्गमानविधि(धिः) सम्यगलक्षणं वक्ष्यतेऽधुना ।
शैवं पाशुपतं चैव काला(ल)मुखं महावृ(व्र)तम् ॥ १ ॥
वामं च भैरवं चैव लिङ्गवा(सा) मान(नाम) षड्विधम् ।
समकर्ण वर्धमानं शिवाङ्गं स्वस्तिकं तथा ॥ २ ॥
एतच्चतुर्विधं लिङ्गं विप्रादीनां च योग्यकम् ।
समकर्णं भूसुराणां भूपानां वर्धमानकम् ॥ ३ ॥
वैश्यानां च शिवाधिक्यं(वाङ्गं च) परेषां स्वस्तिकं भवेत् ।
विप्राणां सर्वलिङ्गं च कुर्याद्द्रोषो न विद्यते ॥ ४ ॥
शिवाधिकं(वाङ्गं च) स्वस्तिकं प्रोक्तं लिङ्गं भूपस्य योग्यकम् ।
स्वस्तिकं च शिवाधिक्य(वाङ्गं च) वैश्यानामपि योग्यकम् ॥ ५ ॥
शुद्धगर्भ गृहे द्वारे प्रासादस्य विशालकम् ।
अधिष्ठानोदये पादं तुङ्गमानं तथैव च ॥ ६ ॥
हस्तमानाङ्गुलेनैव यजमानोदयेन च ।
एतत्सप्तद्विधि(धिः) प्रोक्तं प्रत्येकं बहुधा भवेत् ॥ ७ ॥
श्रेष्ठादीनि कनिष्ठान्तं प्रत्येकं त्रित्रिमानकम् ।
गर्भे नन्दविभागे तु ए(चै)कैकं लिङ्गतुङ्गकम् ॥ ८ ॥
केचिच्चदेकभागे तु नवभाग(गे) विभाजिते ।
तदेकाशीति लिङ्गस्य (ङ्गं स्यात्) कन्यसादुत्तमान्तकम् ॥ ९ ॥
प्रत्येकं तन्त्रिधामानमेकैकं लिङ्गतुङ्गकम् ।
कन्यसा गर्भताराधं(र्धं) त्रिपादं मध्यमं भवेत् ॥ १० ॥
गर्भतारसमं श्रेष्ठं त्रिविधं लिङ्गतुङ्गकम् ।
गर्भगेहे तु मानं स्याल्लिङ्गतुङ्गं प्रकल्पयेत् ॥ ११ ॥