Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53: लिङ्गविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53
- Language
- English
लिङ्गविधानम्
v3.c24.s53.1
लिङ्गमानविधि(धिः) सम्यगलक्षणं वक्ष्यतेऽधुना ।
शैवं पाशुपतं चैव काला(ल)मुखं महावृ(व्र)तम् ॥ १ ॥
वामं च भैरवं चैव लिङ्गवा(सा) मान(नाम) षड्विधम् ।
समकर्ण वर्धमानं शिवाङ्गं स्वस्तिकं तथा ॥ २ ॥
एतच्चतुर्विधं लिङ्गं विप्रादीनां च योग्यकम् ।
समकर्णं भूसुराणां भूपानां वर्धमानकम् ॥ ३ ॥
वैश्यानां च शिवाधिक्यं(वाङ्गं च) परेषां स्वस्तिकं भवेत् ।
विप्राणां सर्वलिङ्गं च कुर्याद्द्रोषो न विद्यते ॥ ४ ॥
शिवाधिकं(वाङ्गं च) स्वस्तिकं प्रोक्तं लिङ्गं भूपस्य योग्यकम् ।
स्वस्तिकं च शिवाधिक्य(वाङ्गं च) वैश्यानामपि योग्यकम् ॥ ५ ॥
शुद्धगर्भ गृहे द्वारे प्रासादस्य विशालकम् ।
अधिष्ठानोदये पादं तुङ्गमानं तथैव च ॥ ६ ॥
हस्तमानाङ्गुलेनैव यजमानोदयेन च ।
एतत्सप्तद्विधि(धिः) प्रोक्तं प्रत्येकं बहुधा भवेत् ॥ ७ ॥
श्रेष्ठादीनि कनिष्ठान्तं प्रत्येकं त्रित्रिमानकम् ।
गर्भे नन्दविभागे तु ए(चै)कैकं लिङ्गतुङ्गकम् ॥ ८ ॥
केचिच्चदेकभागे तु नवभाग(गे) विभाजिते ।
तदेकाशीति लिङ्गस्य (ङ्गं स्यात्) कन्यसादुत्तमान्तकम् ॥ ९ ॥
प्रत्येकं तन्त्रिधामानमेकैकं लिङ्गतुङ्गकम् ।
कन्यसा गर्भताराधं(र्धं) त्रिपादं मध्यमं भवेत् ॥ १० ॥
गर्भतारसमं श्रेष्ठं त्रिविधं लिङ्गतुङ्गकम् ।
गर्भगेहे तु मानं स्याल्लिङ्गतुङ्गं प्रकल्पयेत् ॥ ११ ॥
v3.c24.s53.2
शुद्धद्वारोदयं नन्दभागं कृत्वा विशालकम् ।
एकैकं लिङ्गतुङ्गं स्यात्कन्यसादीनि पूर्ववत् ॥ १२ ॥
प्रत्येकं तु त्रिधा मानं साष्टादश(चैकाशीति) च लिङ्गकम् ।
प्रासादस्य विशाले तु गर्भगेहे(हसु)क्वङ्कवेत् ॥ १३ ॥
अधिष्ठानसमं श्रेष्ठं त्रिपादं मध्यमं भवेत् ।
तदर्धं कन्यसं प्रोक्तं त्रिविधं लिङ्गमीरितम् ॥ १४ ॥
अथवा नवभागं स्यान्नवलिङ्गमुदाहृतम् ।
कन्यसादुत्तमान्तं स्यात्प्रत्येकं पूर्ववद् भवेत् ॥ १५ ॥
पादोदयं नवांशं नवधा लिङ्गमानकम् ।
तदेवं चैकभागे तु चतुर्भाग(गं) विभाजिते ॥ १६ ॥
एकैकं लिङ्गतुङ्गं स्यात्षट्त्रिंशं लिङ्गतुङ्गकम् ।
कन्यसादुत्तमान्तं स्यात्सर्वं प्रागुक्तवन्नयेत् ॥ १७ ॥
हर्म्यतुङ्गं दे(न)वांशं स्यात्कन्यसादि त्रयं त्रयम् ।
एवं तु नवलिङ्गं स्यान्नवभेदोदयं भवेत् ॥ १८ ॥
केचिद्विमानतुङ्गे तु नन्दनन्दांशकं भवेत् ।
एकैकं लिङ्गतुङ्गं स्यान्नन्दनन्दोदयं भवेत् ॥ १९ ॥
कन्यसादुत्तमान्तं स्यात्पूर्ववल्लिङ्गमिष्यते ।
एकहस्तं समारभ्य हस्तैकेन प्रवर्धयेत् ॥ २० ॥
एकैकं लिङ्गतुङ्गं स्यान्नवहस्तावसानकम् ।
एवं तु नवतुङ्गं स्यात्कन्यसादि त्रयं त्रयम् ॥ २१ ॥
करं(रं)त्रिपादमारभ्य तत्समेन विवर्धनात् ।
पादोनसप्तहस्तान्तं पूर्ववन्नवलिङ्गकम् ॥ २२ ॥
अथवा हस्तमारभ्य सा(चा)र्धहस्तेन वर्धनात् ।
सार्धवेदकराष्टं(न्तं) स्यान्नवलिङ्गोदयं भवेत् ॥ २३ ॥
पादहस्तं समारभ्य पादहस्तेन वर्धनात् ।
पादाधिकद्विहस्तान्तः नवलिङ्गं तु पूर्ववत् ॥ २४ ॥
जातिच्छन्दं विकल्पं च आ(तु चा)भासं तु चतुर्विधम् ।
एकहस्तवशात्सर्वं कन्यसादि त्रयं त्रयम् ॥ २५ ॥
v3.c24.s53.3
छन्दादीनां तु मानं स्यात्षट्त्रिंशल्लिङ्गतुङ्गकम् ।
एकादशाङ्गुलमारभ्य द्विव्यङ्गुलविवर्धनात् ॥ २६ ॥
सप्तविंशाङ्गुलान्तं स्यान्नवधा लिङ्गतुङ्गकम् ।
द्वादशाङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥ २७ ॥
षष्ट्यङ्गुलानसाने स्यान्नवधा लिङ्गमानकम् ।
पञ्चविंशाङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥ २८ ॥
त्रिसप्ततित्रिमात्रान्तं नवधा लिङ्गतुङ्गकम् ।
सर्वेषां कन्यसं श्रेष्ठं पर्यन्ता(न्तम्)ङ्गुलमानकम् ॥ २६ ॥
यजमानस्य मेढ्रान्तं नाभ्यन्तं हृदयान्तकम् ।
स्तनान्तं बाहुसीमान्तं हन्वन्तं नासिकान्तकम् ॥ ३० ॥
नेत्रान्तं समतुङ्गं स्यान्नवविङ्गोद्भवं भवेत् ।
अथवा तुङ्गमाने तु नवभाग(गं) विभाजिते ॥ ३१ ॥
एकैकं लिङ्गतुङ्गं स्यात्कन्यसादि त्रयं त्रयम् ।
नवत्यंशविधं लिङ्गं यस्स(ज)मानवशाद्विदुः ॥ ३२ ॥
बहुधा स्नाप्यलिङ्गं वा नवलिङ्गं परिसंख्यया ।
अथ हस्ताद्य(दि)माने [च]सर्वलिङ्गेषु कल्पयेत् ॥ ३३ ॥
पञ्चादशाङ्गुलं माने यन्माने नवलिङ्गके ।
सप्ता(प्त)दशाङ्गुलान्तं च पञ्चा(ञ्च)दशाङ्गुलमारभेत् ॥ ३४ ॥
स्थापयेत्पञ्चलिङ्गे तु इ(चे)त्यूर्ध्वेन तु कारयेत् ।
तन्त्रिपादकरादूर्ध्वं चाधिकं सर्वतुङ्गके ॥ ३५ ॥
सर्वेषां चैकहर्म्यं तु ए(चै)कैकलिङ्गे तु संमतम् ।
बहुधा सर्वलिङ्गेषु तत्रिकर्गा न कारयेत् ॥ ३६ ॥
द्विकर्गा बहुलिङ्गे तु त्रिकर्गा चैकलिङ्गके ।
लिङ्गतुङ्गमिनि प्रोक्तं तद्विशाळमिहोच्यते ॥ ३७ ॥
त्रिचतुष्पञ्चाङ्गुलान्तं स्याद्वहुलिखे तु विस्तृत्तम् ।
अथवा तुङ्गमाने त्रिचतुष्पञ्चभागिकम् ॥ ३८ ॥
तत्तदेकांशविस्तारं बहुलिङ्गविशालकम् ।
नागरं द्राविडं चैव वेसरं च त्रिधा मतम् ॥ ३६ ॥
v3.c24.s53.4
षट्सप्ताष्टाङ्गुलं चैकलिङ्गत्तारमिति स्मृतम्।
नवपङ्किरुद्रमात्रं स्यात् समलिङ्गविशालकम् ॥ ४० ॥
भानूण(सै)काङ्गुलं चैव चतुर्दशाङ्गुलमेव च।
एवं तु चैकलिङ्गं स्याद्वि(ङ्गस्य वि)स्तारं परिकीर्तितम् ॥ ४१ ॥
पञ्चा(चा)दशाङ्गुलं चैव षोडशाङ्गुलमेव च।
विस्तार( ं) दशाङ्गुलं चैव लिङ्गानामिति विस्तृतम् ॥ ४२ ॥
अष्टादशाङ्गुलं चैव नवपङ्क्त्यङ्गुलान्तकम्।
विंशत्यङ्गुलं चैव लिङ्गतारं त्रिधा मतम् ॥ ४३ ॥
एकविंशत्यङ्गुलं चैव द्वाविंशतिकाङ्गुलम्।
त्रयोविंशाङ्गुलं चैव त्रिधा लिङ्गविशालकम् ॥ ४४ ॥
चतुर्विंशाङ्गुलं चैव पञ्चविंशाङ्गुलं तथा।
षड्विंशाङ्गुलं चैव विशालं त्रिविधं मतम् ॥ ४५ ॥
सप्तविंशाङ्गुलं चैव अ(चा)ष्टविंशाङ्गुलं तथा।
नवविंशतिमात्रं स्याल्लिङ्गत्तारमिति स्मृतम् ॥ ४६ ॥
अथवा त्रिंशदङ्गुल्यमेकत्रिंशतिमात्रकम्।
द्वात्रिंशाङ्गुलं चैव लिङ्गत्तारमिति स्मृतम् ॥ ४७ ॥
कन्यसाद्युत्तमान्तं स्यात्प्रत्येकं त्रित्रिमानकम्।
एवं तु नवधा लिङ्गं प्रत्येकं नागरादिभिः ॥ ४८ ॥
अथवा तुङ्गमानं तु चतुष्पञ्चषडंशकम्।
तत्तदंशीकभागेन चैकलिङ्गविशालकम् ॥ ४९ ॥
नागरं द्राविडं चैव वेसरं च त्रिधा मतम् ॥ ५० ॥
इष्टायामे ऽशसत्रिंशदंशम्
कृत्वा क्रमादधिकं तदंशकम्।
विस्तारं तत्कन्यसादि त्रिधा
युक्त्या धीमान् वेसरादीनि कुर्यात् ॥ ५१ ॥
बहुलिङ्गोदये सर्वे(र्वेस्मिन्) ब्रह्मभागं विनोदयम्।
द्विभागं समकन्यंस्याद्वि(न्यसं वि)ष्णुरुद्रांशं तत्समम् ॥ ५२ ॥
v3.c24.s53.5
अथवा तुङ्गनवमं स्यादेद(दं) नारायणोदयम् ।
पञ्चांशं शिवोदयं स्याद् वर्धमानमिति स्मृतम् ॥ ५३ ॥
अष्टादशांशकं तुङ्गे वैष्णवं चाष्टभागिकम् ।
दशांशं शिवोदयं स्याच्छिवाधिकं (बाई) लिङ्गमीरितम् ॥ ५४ ॥
उत्सेधे दशभागे तु विष्णुतुङ्गं षडंशकम् ।
वेदांशे शिंवांशं स्यात्स्वस्तिकं बहुलिङ्गके ॥ ५५ ॥
कमलजहरिहरांशं तत्समं चैकलिङ्गे
मनु(मुनि)वसुनवभागैस्तुङ्गमष्टात्रि(त्र)याङ्गकम् ।
कमलजहरिहरांशं सर्वतोभद्रलिङ्गम्
द्विजकुलनृपतिपूज्यं वर्धमाना(नमपि) चैव ॥ ५६ ॥
पञ्चपञ्चाशदंशाकोन्नतम्
ब्रह्माविष्णुशिवभाग(गं) तत्क्रमात् ।
तुङ्गमष्टयुगांशके कृते
तच्छिवाधिक(कं) [वैश्य]योग्यकम् ॥ ५७ ॥
स्वस्तिकस्य शतषट्(ष्टि) शिरो(वो)न्नतम्
षोडशांशविधि(धिर) वैष्णवं तथा ।
भ(रु)द्रभागविधिवत्समाचरेत्
संपदा(द)र्थमिव शूद्रयोग्यकम् ॥ ५८ ॥
वेदाश्रामं ब्रह्मभागे च मूले
चाष्टाश्रामं मध्यमे विष्णुभागे ।
वृत्ताकारमग्रके तच्छिवांशम्
कुर्यात्तु सर्वं चर्तुलिं(चैकलि)ङ्गमेतत् ॥ ५६ ॥
वेदाश्रं वस्वश्रकं [वा] वृत्तं चैवम्
प्रोक्तानेकलिङ्गाग्र(श्र) मूले [मध्ये] ।
वृत्ताकारं चामके रुद्रभागे
कुर्यादेवं शिल्पिविद्वद्भिरैव ॥ ६० ॥
एकानेकं चोक्तलिङ्गे शिवांशे
कुर्याद्धारा(रां) षोडशादिद्वयेन ।
v3.c24.s53.6
दृष्ट्वा धारायत(यां) सहस्रावधा(सा)नम्
धारालिङ्गे चैवमुक्तं तन्त्रैः ॥ ६१ ॥
पञ्चषट्सुनिर(न्य)ष्टविस्तृते [च]
द्विद्विभाग(गं) शिर(रो) मानतुङ्गकम् ।
तत्तदङ्गुळततच्छिरो(र उ) दये
ह्यंशयुग्मधि(धा)रोपमानकम् ॥ ६२ ॥
वर्तिरुस्त(स्थ)मिव तच्छिखं बुधैः
युदार्धं(कुर्यात्तु) त्रिपुरुषा(रघा)कृतिस्तथा ।
अर्धचन्द्रमिति चित्रवद् भवेत्
शिल्पिभिः प्रवर(रैः) व(क) र्यंतः क्रमात् ॥ ६३ ॥
पूजांशो त्तत्तुङ्गमष्टद्वयांशम्
कृत्वांशेन द्वित्रिवेदाम्विसृज्य ।
तस्याप्यस्त्यङ्गचक्षोद्धारशेषम्
शिल्पिः(ल्पी) कुर्यान्नागरादिः(दीन्) त्रिधैव ॥ ६४ ॥
तत्तच्चैकार्धभागं मध्यभागम् (ने)
विस्तारं स्यान्नचक्षोद्धारखे च ।
असे चैकद्व्यंशत्रि(त्र्यं)शेन तुङ्गम्
तस्मात्पार्श्वे भूषयेत्पृष्ठकान्तम् ॥ ६५ ॥
कुर्यादेकां पिण्डिकां तंतु(तस्य) पार्श्वे
चैकद्वित्र्यंशकं चान्तरं च ।
पृष्ठे युक्त्या कारयेद् विष्णुकान्तम्
एवं युक्त्या नागरादिक्रमं स्यात् ॥ ६६ ॥
एकानेकलिङ्ग[स्य] धारणांशे
कुर्याल्लिङ्गे मूर्ध्निवत्कुङ्मलं वा ।
छत्राकारं वाथ मूर्ध्निप्रदेशे
युक्त्या धीमानुद्धरेद्व(द)धस्तात् ॥ ६७ ॥
लिङ्गादीनां (न्) स्थापयेत्सर्वहर्म्ये प्रागुक्तवत्क्रमात् ॥ ६८ ॥
v3.c24.s53.7
शुद्धगर्भगृहे मध्ये सप्तभाग(गं) विभाजितं ।
मध्ये ब्रह्मपदं चैव परितश्चाष्टदिवौकसः ।। ६६ ।।
मानुषांशं तु तद्वाह्ये परितः षोडशांशकम् ।
चतुर्विंशांशकं बाह्ये परितः पैशाचमेव च ।। ७० ।।
मध्ये ब्रह्मपदे सप्तसप्तभाग(गं) विभाजिते ।
ब्रह्मांशे मध्यमे ब्रह्मसूत्रं तत्परिकल्पयेत् ।। ७१ ।।
तद्वामे विष्णुसूत्रं स्यात्तद्बाह्ये परिकल्पयेत् ।
तत्सूत्रात्(त्र)द्वयोर्मध्ये शिवसूत्रं प्रकल्पयेत् ।। ७२ ।।
ब्रह्म[स्व]विष्णुसूत्रं [च] स्यान्मध्ये च शिवसूत्रकम् ।
एवं तु चैकलिङ्गं स्यात्स्थापयेच्छिल्पि(ल्प)वित्तमः ।। ७३ ।।
बहुलिङ्गप्रतिष्ठा चेत्तत्तदेका(क)पदोक्तवत् ।
कुर्यादेव पदे विष्णां(ष्णो) ब(र्व)हूद्वा चैकमेव वा ।। ७४ ।।
गर्भगेहस्थले धारनील(खीय)मध्ये समं भवेत् ।
अज्ञानादधिकं चेन्निम्नं चेत्सर्वदोषदम् ।। ७५ ।।
तस्मात्परिहरेत्सर्वदेवतास्थापनं बुधः ।
बेरस्यैकशिला प्रोक्तं(क्ता) लिङ्गानां तच्चतुःशिला ।। ७६ ।।
नन्द्यावर्त(र्ता)कृतिः(ति) स्थाप्य(पयित्वा) तथा चैकाश्मना भवेत् ।
अधो(ध) पाषाणकूर्मस्यं चोर्ध्वं(र्ध्वा)धारमिति स्मृतम् ।। ७७ ।।
इत ऊर्ध्व शिलादी [तु] पीठके वापि चोद्द्वयम् ।
उक्तवत्कल्पयेच्छिल्पी हीनाधिक्यं न कारयेत् ।। ७८ ।।
स्थापयेल्लिङ्गबेरै(रां)श्च स्थपतिः स्थापकैः सह ।
लिङ्गानां पीठकानां च देवदेव्याश्च हर्म्यके ।। ७६ ।।
शिलासंग्रहणं(हस्य) सम्यग्लक्षणं वक्ष्यतेऽधुना ।
पर्वते वा वने वापि स्थपतिः स्थापकैः सह ।। ८० ।।
प्रभाते तु समुत्थाय कर्ता चानुचरैः सह ।
मार्गके चोक्तवत्सर्वं पार्श्वे तु शकुनानि वै ।। ८१ ।।
सुमुहूर्ते सुलग्ने च शिलासंग्रहणं भवेत् ।
उक्तवच्च रथा(थमा)रोप्य शिल्पशाळां प्रविश्य(श)ति ।। ८२ ।।
v3.c24.s53.8
पत्रावलीढकारमं च अ(वा)जलावटे कदाशमना ।
आतपेनावलोढं चेद् वर्जयेत्सा शिला भवेत् ॥ ८३ ॥
यत्पूर्वोत्तराग्रं ज्ञात्वा मूलं दक्षिणपश्चिमे ।
अधोभागा(गे) सुखं ज्ञात्वा शयने चापरोध्वंकम् ॥ ८४ ॥ 192
पूर्वाग्रं (प्राश) च शिला (लाः) सर्वे (र्वा) दक्षिणे सव्यपार्श्वके ।
उत्तरे वामभागं स्यादुत्तराग्रशिले (लायां) विदुः ॥ ८५ ॥
पूर्वं तु दक्षिणं पार्श्व पश्चिमे वामपार्श्वकम् ।
ईशानाग्रशिलानां तु मूले (लं) नैर्ऋत्यदेशके ॥ ८६ ॥ 196
अन्यकोणेषु सर्वेषु मूलमग्रं न विद्यते ।
दिक्षु दीर्घशिला सर्वाः पुंशिलानां (श्च) प्रकीर्तितम् (ताः) ॥ ८७ ॥
चतुष्कोणेषु दीर्घं स्याच्छिलाषण्डः प्रकीर्तितः ।
प्रभूतं च स्थिता (तं) सर्वं पृथिव्याकाशायतं तथा ॥ ८८ ॥ 200
ऊर्ध्वाग्रमध्यो मूलं [च] प्रागुक्तदिक् तथैशके ।
तत्तदुन्नतवक्रं च यदि स्यान्मं भवेत् ॥ ८६ ॥
तत्पार्श्वं पूर्ववज्ज्ञात्वा तस्याकारमिहोच्यते ।
मूलमग्रं च मध्यं च समाकारं तु पुंशिला ॥ ६० ॥ 204
स्थूलमूलं कृशाग्रं स्यात्स्त्रीशिला तु प्रकाशिता ।
स्थूलाग्रं च कृशं मध्ये स्थूलं नपुंसकं शिला ॥ ६१ ॥
चतुरश्रं पुंशिला प्रोक्तं वृत्तं स्याद् वनिता शिला ।
बहुधा गृह्य (चाप्र) शृङ्गं स्यान्नपुंसकं वसु (दु) शाइतम् ॥ ६२ ॥ 208
कांसकांस्यनिनादं स्यात्स्त्रीशिला तु प्रकीर्तिता ।
रत्नभाण्डध्वनिनादं शिला च पुरुषं स्मृतम् ॥ ६३ ॥
निर्ध्वनि च शिला सर्व नस्त्री नपुमान् विदुः ।
तालध्वनिनादं स्याच्छिला वल्याः (ह्रो) प्रकीर्तितम् (ता) ॥ ६४ ॥ 212
महिषध्वनिसंयुक्ता शिला वृत्ताः प्रकीर्तिता ।
पूर्वोक्तध्वनी (कार्यानि) नादं यावना च शिला भवेत् ॥ ६५ ॥
शिलासर्वेषु वृत्तं च शिलाञ्छा [लां] विवर्धयेत् ।
पुंशिखेन (खया) पुमान् (मांसं) लिङ्गं कुर्याद्रेखां विवर्जयेत् ॥ ६६ ॥ 216
v3.c24.s53.9
शक्तानां पीठकानां च स्त्रीशिलासंग्रहं (हो) भवेत् ।
प्रासादादीनि(नां) सर्वेषां नपुंसकशिला भवेत् ॥ ९७ ॥
श्वेतरक्तं च पीतं च शिला कृष्णां यथाक्रमात् ।
द्विजातीनां च वर्णानां कुर्याल्लिङ्गादिना (दीन्) बुधः ॥ ९८ ॥
सर्वेषामपि वर्णानां सा शिला कृष्णमेव वा ।
सर्वेषां वर्णपापाणे कृष्णरेखां विसर्जयेत् ॥ ९९ ॥
श्वेतं च स्वर्णरेखं च सर्वसंपत्करं शुभम् ।
शिलासंग्रहणं प्रोक्तं शेषमर्हमागमोक्तवत् स्मृतम् ॥ १०० ॥
स्वयम्भुलिङ्गसर्वेषां लक्षणं वक्ष्यतेऽधुना ।
उद्भूतं दैवकं चैव मानुषं गाणवं तथा ॥ १०१ ॥
एवं चतुर्विधं लिङ्गं स्वयम्भुरिति कीर्तितम् ।
तत्स्थाप्य(प्यं) स्वयमुद्भूतं स्वयम्भुरिति कीर्तितः ॥ १०२ ॥
देवैश्च स्थापितं लिङ्गं दैविकं लिङ्गमुच्यते ।
मानुषैः रचितं लिङ्गं मानुषं चेति कथ्यते ॥ १०३ ॥
अन्येषु (न्यैः) रचितं लिङ्गं चार्षञ्चैव कथ्यते ।
गणैश्च पूजितं लिङ्गं गाणं चेति प्रकथ्यते ॥ १०४ ॥
उद्भूतं श्वेतवर्ण चे (कुर्या) द् दैविकं रक्तवर्णकम् ।
मानुषं पीतवर्णाभं कृष्णवर्ण च गाणक(व) म् ॥ १०५ ॥
आर्षं युक्तसूत्रं स्यात्स्वस्तिकाकृतिरे (मे) व वा ।
उद्भूतं शङ्खराकारं रुद्राक्षरं [च] दैविकम् ॥ १०६ ॥
नगर्दभं (गोपभं) गाणवं स्याल्लिङ्गाकारमिहोच्यते ।
उद्भूतस्सा(त्तं स्थू)लमूलं स्यात्कृशाग्रं वा समाधिकम् ॥ १०७ ॥
अन्यथा सर्वलिङ्गानां स्थूलाग्रं कृशमूलकम् ।
दैविकं दिण्डिमाकारं मानुषाद्र्वपुषा (पं सुफुल्लुवा) कृतिः (तिम्) ॥ १०८ ॥
उद्भूतं पर्वताकारं कूरमा (कूर्मा) ण्डाकार (रं) गाणवम् ।
पुण्यरत्नद्रिदेशे तु लिङ्गसंग्रहणं भवेत् ॥ १०९ ॥
एवं परार्थं लिङ्गं स्याच्छेषमागमतो (मो) क्तवत् [स्यात्] ।
आत्मार्थं लिङ्गपीठस्य लक्षणं पठ्यतेऽधुना ॥ ११० ॥
v3.c24.s53.10
पीठतुङ्गं समं वाथ त्रिपादं चार्धमेव वा ।
लिङ्गायाममिति प्रोक्तं नाभं(हं) पीठविशालवत् ॥ १११ ॥
नदीपर्वतदेशे तु लिङ्ग(पीठ)संपदशं भवेत् ।
श्वेतरक्तं च पीतं च कृष्णवर्णं चतुष्टयम् ॥ ११२ ॥
भूसुरादिचतुर्णां तु वर्णानां लिङ्गतः क्रमात् ।
अथवा कृष्णवर्णं च तत्सर्वं चार्थकं भवेत् ॥ ११३ ॥
स्फटिकार्यं(र्षं)तलिङ्गं यत्तूद्देश्यं च शम्भुरुच्यते ।
तत्र स्वयम्भुलिङ्गे तु विरूपं च विशेषतः ॥ ११४ ॥
सम्यक् सूत्रे च संकुर्याद्यावल्लक्षणमुच्यते ।
तल्लिङ्गं मानुषं प्रोक्तं तत्पर्यन्तञ्चिन्द्र(तालिन्द) के [च] ॥ ११५ ॥
रेखाविन्दुकलङ्काङ्गं वर्जयेत्तद् विशेषतः ।
सौवर्ण्यबिन्दुरेखाख्यं सर्वसंपत्सुभावतम् ॥ ११६ ॥
ईषत्तदुन्नतं लिङ्गं हर्म्यवत्स्वयंभुलिङ्गकम् ।
वृत्तं वायतवृत्तं वा नामे(भेः) चरणा[भा]यते ॥ ११७ ॥
किञ्चित्तदुन्नतं वर्त(र्मं) निम्नं तत्पृष्ठ(पीठ) मिष्यते ।
स्थूलाग्रं यत्कृशं मूले लिङ्गं सर्वं निग(ज्ञा) कति ॥ ११८ ॥
स्वभावदन्तोष्ठयुक्तं चेल्लिङ्गं तन्मानुषं भवेत् ।
सिकतारूपकं ज्ञात्वा चैवं स्वयम्भुलिङ्गकम् ॥ ११९ ॥
विनारक्तं विनाकृष्णं सैकते लिङ्गमिष्यते ।
सर्वं(वं)स्वयम्भुलिङ्गेषु आ(चा) त्मार्थं च परार्थके ॥ १२० ॥
नसंज्ञे(घे)षु च रक्तेषु लिङ्गस्योक्तो(क्ता)र्चनं भवेत् ।
उक्तलिङ्गप्रकारेण शेषमागमतो (तो) तवत् [च] ॥ १२१ ॥
आत्मार्थाञ्चैनलिङ्गस्य वक्ष्यते पीठलक्षणम् ।
कर्तुन्नाशं परित्यज्य किञ्चिचैव शिला भवेत् ॥ १२२ ॥
जलानलातपवातस्पृष्टाश्मानि विवर्जयेत् ।
पृष्ठयोगर्भक्षिप्तं स्निग्धं विन्दुरेखां(खं) विवर्जयेत् ॥ १२३ ॥
फलितं चैकभागं स्यात्स्त्रीशिला तु प्रकीर्तिंतम् (ता) ।
नपुंरं(पुंसं) सुसमद्दष्टं च [नपुंसकं] शिला भवेत् ॥ १२४ ॥
v3.c24.s53.11
सम्यक्कृष्णनीलाः प्रोक्ताः वर्णमन्यं विवर्जयेत् ।
कर्षपाषाणवत्स्वर्णरेखोपशमिष्यते ॥ १२५ ॥
एवं परि(री)क्षिते पश्चात् शि(ल्लि)ङ्गासंग्रहणं भवेत् ।
एवं लक्षणयुक्तस्य शिलापीठं प्रकुर्वते ॥ १२६ ॥
कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलमध्यमे ।
पर्वता(र्वा)यतनस्ता(ना)दमङ्गुलं त्रिविधं भवेत् ॥ १२७॥
यवेन कल्पिते वापि चाङ्गुलंवा (ना)पि कल्पयेत् ।
कर्तुंनक्षत्रमित्रं (श्रं) हि मानं युक्त्या प्रयोजयेत् ॥ १२८ ॥
परार्थे वा स्वयम्भूनां मानाङ्गुलवशेन वा ।
आयाममिति षड्वर्गमित्थं पीठोदयं भवेत् ॥ १२६ ॥
लिङ्गमानं वियुक्तं चेत्कुर्यात्तु मानुषादीनाम् ।
तन्त्रिभिर्र्यवं समारभ्य द्विड्ग्यङ्गलविवर्धनात् ॥ १३० ॥
पञ्चविंशाङ्गुलान्तं स्यात्पीठविस्तारमेव च ।
अङ्गुलत्रयमारभ्य द्विड्ग्यङ्गलविवर्धनात् ॥ १३१ ॥
पञ्चविंशाङ्गुलान्तं स्यात्पीठविस्तारं विधीयते ।
षड्वर्गा [या] दिशुभं कुर्याद्यवाभागादि संभवम् ॥ १३२ ॥
तन्माने पीठविस्तारं कृत्वा तु चतुरंशकम् ।
एकांशं लिङ्गमानं स्याच्छेषं तत्पीठतुङ्गकम् ॥ १३३ ॥
अथवा पञ्चभागांशं तल्लिङ्गोदयमीरितम् ।
शेषं तु पूर्ववत्पीठं तुङ्गं कुर्याद्विचक्षणः ॥ १३४ ॥
पीठतारसमं लिङ्गं मध्यनालाप्रकान्तकम् ।
पीठतारं द्वयं कृत्वा ए(वै)कांशं नालविस्तृतम् ॥ १३५ ॥
तच्चतुर्भागिकैकांशं (श) हीनं नालाम्रतारकम् ।
केचिद् द्वित्र्यंशमेवं स्यान्मूलाग्रान्तक्षयं क्रमात् ॥ १३६ ॥
तद्विशालात्त्रिभागैकं प्रणाले विस्तारमेव वा ।
पीठतारचतुर्थांशे त्रियं (त्रयां) शं वृत्तवारिका ॥ १३७ ॥
पीठतारसमं चैव लिङ्गं तन (ङ्गस्य) परिक्षाहिकम् ।
एवमात्मार्थलिङ्गेषु स्वयम्भुवं परार्थक ॥ १३८॥
v3.c24.s53.12
कुर्यादनेकलिङ्गेषु चैकलिङ्गं न कारयेत् ।
पीठतुङ्गं त्रिधा कृत्वा ए(चै)कांशं गलतुङ्गकम् ॥ १४३ ॥
अथवा पञ्चदशांशं वा गलतुङ्गं विशेषतः ।
शेषं तु चोर्ध्वाधो बन्धे पट्टजन्मसरोरुहम् ॥ १४० ॥
एकांशं जन्मतुङ्गं तु ए(चै)कभागैकं वेत्रकम् ।
तत्समं पङ्कजाग्रं स्यात्पद्मकुडिर्र्यंशांशकम् ॥ १४१ ॥
तदष्टांशैकवेत्रं स्यात्तत्समं चोर्ध्ववेत्रकम् ।
पूर्ववत्कर्णसंयुक्तमूर्ध्वखण्डमवञ्चकवत् ॥ १४२ ॥
सपादांशाधिकं हीने वा यन्मानोरम्यं मानयोः ।
पीठतारेादयं नालं दीर्घं प्रागुक्तवन्नयेत् ॥ १४३ ॥
वृत्ताकारं तु पीठं स्यादन्यथाकृति वर्जयेत् ।
पीठतुङ्गे तु गन्धं(रन्ध्रं) स्याल्लिङ्गनाहस्य सादृशम् ॥ १४४ ॥
लिङ्गतुङ्गविशेषे स्याद्वेशने तन्नयेद्बुधः ।
मानयेद्बहुलिङ्गे तु चैकानेकादि[लिङ्ग]कैः ॥ १४५ ॥
एतत्तु सर्वलिङ्गेषु चात्मार्थं च परार्थके ।
तन्मध्ये स्थापयल्लिङ्गमादौ रत्नानि विन्यसेत् ॥ १४६ ॥
लिङ्गस्य परितो रन्ध्रे स्वर्णयर्वावबन्धनम् ।
अभावे रजतेनैव ताम्रं चायसमेव च ॥ १४७ ॥
कारयेच्छिल्पिना सम्यग् लिङ्गपीठादृढैः(यैः) सह ।
एकानेकलिङ्गानां परार्थे त्वष्टबन्धनम् ॥ १४८ ॥
केचिद्दिबन्धनं कुर्याद् द्रव्यैश्च गुग्गुलादिभिः ।
रत्नलिङ्गेषु सर्वेषां व(स्व)र्णपीठं प्रकल्पयेत् ॥ १४६ ॥
अथवा रत्नपीठं वा रक्त(त्न)लिङ्गेषु पूर्ववत् ।
यद्यद्द्रव्येण लिङ्गं तत्तद्द्रव्येण पीठकम् ॥ १५० ॥
नवरत्नैश्च संयुक्तं स्वर्णपीठं प्रकल्पयेत् ।
यत्तद्रत्नैश्च यल्लिङ्गे तत्तन्नाम्नैव नामकम् ॥ १५१ ॥
पीठं(ठे) तु लिङ्गके वापि नवरत्नैर्विशेषतः ।
एकंकर्या चैकलिङ्गं बहुभिश्चैकलिङ्गकम् ॥ १५२॥
v3.c24.s53.13
वज्रलिङ्गमिति प्रोक्तं रत्नानि मि(इ)ति कथ्यते ।
एकं वा बहुरत्नं वा नवरत्नैश्च संयुतम् ॥ १५३ ॥
लिङ्गं यदुक्तं स्वर्णेन पीठे रत्नानि योजयेत् ।
अथवा केवलं स्वर्णं पीठं वा कारयेद् बुधः ॥ १५४ ॥
स्वर्णलिङ्गमिति प्रोक्तं लक्षणं पूर्ववद् भवेत् ।
आचार्यहस्तेन वा लिङ्गं शिष्यस्तु(स्य) नाहलिङ्ग(हातुल)वत् ॥ १५५ ॥
पश्चात्पूजां तथा कुर्यादाचार्योक्तोपदेशवत् ।
अथोक्तलिङ्गपूजायां(या) फलं वक्ष्ये यथाविधि ॥ १५६ ॥
नदीपर्वतलिङ्गानां कैलासारोहणं भवेत् ।
इहलोकस्य पूज्यत्वं भुक्तिमुक्तिफलप्रदम् ॥ १५७ ॥
रत्नलिङ्गस्य पूजायां फलं मुक्तिप्रदायकम् ।
स्वर्णलिङ्गार्चनमे(व्यै)वं फलं स्वर्गापवर्गकम् ॥ १५८ ॥
स्वर्णपीठं तु तल्लिङ्गं मुक्तावलिघ(घ)नमथापि वा विदुः ।
कर्तुमानसवशात्कल्पयेत्प्रशस्तमिह दोषवर्जितम् ॥ १५९ ॥
तोये वा मण्डले(ण्डूरे) वापि पुष्पे वा क(चो)त्पलेऽपि वा ।
सिकते वाथ हस्ते वा चाक्षतैर्वा गुलैस्तथा ॥ १६० ॥
मोदके वाथ पिष्टे वा गोमये वा यथेष्टकम् ।
सद्यः पूज्यं रचेल्लिङ्गं प्रोक्तं तत्क्षणिकं भवेत् ॥ १६१ ॥
तानि लिङ्गानि सर्वेषां यथालिङ्गाकृतिर्भवेत् ।
ध्यात्वा दण्डियका(कं) लिङ्गं मानं सर्वं न कारयेत् ॥ १६२ ॥
दीर्घे(दैर्घ्ये) लिङ्गमा(स्या)यादिषड्वर्गशुद्धिं कुर्यात्सर्ववोक्तवत् ।
मानलिङ्गे चान्यस्यायम्भुवादिमाने च युक्तं तवायादीनि सर्वं न कुर्यात् ॥ १६३ ॥
बन्धाष्टनन्दवसु नन्दयुगेन वृद्धा
चाष्टार्कपङ्क्तितुरगैर्मुनिभिर्वि(नेन्द)हन्यात् ।
योन्य(नय)श्च वृद्धि [व्य] म [व्य]यं च तु बारमंशम्
लिङ्गैकेन कुर्यात्तु परार्थतुङ्गे ॥ १६४ ॥
ध्वजधूमसिंहशुनकवृषगर्दभाश्च
दन्ती च काकश्च वसुयोनिः य(यै)वाक्रमेण ।
v3.c24.s53.14
ध्वजसिंहहस्तिवृषयोनिः शुभं प्रशस्तम्
अन्येषु योनिरशुभमुदितं पुराख्यैः ॥ १६५ ॥
शंख(खं) वृद्धिर्म(र्भ)रणं शुभावहम्
चतुर्वृद्धिरूपं सुमङ्गलम् ।
श्रोकरं च सुखदं सुवृद्धिदम्
पुष्कलाय रवि(विः) तत्फलं क्रमात् ॥ १६६ ॥
मुक्तिमुक्तिशुभदं समृद्धिदम्
सम्पदर्थं धनवृद्धिः द्विज ।
मुक्तिनाशकलहं च मैत्रकम्
चोक्तमेव दशाधा फलं भवेत् ॥ १६७ ॥
आयाधिक्यं चान्यथा हीनमुक्तम्
आयं हीने चान्यथा चेत्त्वधिकम् ।
मृत्युदारिद्रावहं नाशहेतुः
आयाधिक्यं संपदर्थं समं वा ॥ १६८ ॥
जमाद्रक्षं(जन्मर्क्ष्वे)दपहमिस्त्वष्टनन्दाशुभाचाभौमम् ।
शौरि(शनि)वारं विसृज्य कृतिम्यंशुक्रशक्ति-ऋद्धिदं च ॥ १६९ ॥
भूपं शुद्धं धीरं चाधने(चन्दने) वेधे(रमे)व च
[शक्तिश्च] ध्रुवन्धन्य(नं)वीरं चैव भुक्तिमुक्तिशुभांशम् ।
धन्य[न्] सर्वं तस्कराद्या(द्यं) यवांशम्
युक्तं चेत्सर्वसंपत्प्रदिनाशनम् ॥ १७० ॥
v3.c24.s53.15
इति मानमारे वास्तुशास्त्रे लिङ्गविधानं नाम द्विपञ्चाशदध्यायः ॥
Linked texts (1)
- Mānasāra — Sanskrit