Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.2

Language
English

v3.c24.s53.2

शुद्धद्वारोदयं नन्दभागं कृत्वा विशालकम् ।
एकैकं लिङ्गतुङ्गं स्यात्कन्यसादीनि पूर्ववत् ॥ १२ ॥
प्रत्येकं तु त्रिधा मानं साष्टादश(चैकाशीति) च लिङ्गकम् ।
प्रासादस्य विशाले तु गर्भगेहे(हसु)क्वङ्कवेत् ॥ १३ ॥
अधिष्ठानसमं श्रेष्ठं त्रिपादं मध्यमं भवेत् ।
तदर्धं कन्यसं प्रोक्तं त्रिविधं लिङ्गमीरितम् ॥ १४ ॥
अथवा नवभागं स्यान्नवलिङ्गमुदाहृतम् ।
कन्यसादुत्तमान्तं स्यात्प्रत्येकं पूर्ववद् भवेत् ॥ १५ ॥
पादोदयं नवांशं नवधा लिङ्गमानकम् ।
तदेवं चैकभागे तु चतुर्भाग(गं) विभाजिते ॥ १६ ॥
एकैकं लिङ्गतुङ्गं स्यात्षट्त्रिंशं लिङ्गतुङ्गकम् ।
कन्यसादुत्तमान्तं स्यात्सर्वं प्रागुक्तवन्नयेत् ॥ १७ ॥
हर्म्यतुङ्गं दे(न)वांशं स्यात्कन्यसादि त्रयं त्रयम् ।
एवं तु नवलिङ्गं स्यान्नवभेदोदयं भवेत् ॥ १८ ॥
केचिद्विमानतुङ्गे तु नन्दनन्दांशकं भवेत् ।
एकैकं लिङ्गतुङ्गं स्यान्नन्दनन्दोदयं भवेत् ॥ १९ ॥
कन्यसादुत्तमान्तं स्यात्पूर्ववल्लिङ्गमिष्यते ।
एकहस्तं समारभ्य हस्तैकेन प्रवर्धयेत् ॥ २० ॥
एकैकं लिङ्गतुङ्गं स्यान्नवहस्तावसानकम् ।
एवं तु नवतुङ्गं स्यात्कन्यसादि त्रयं त्रयम् ॥ २१ ॥
करं(रं)त्रिपादमारभ्य तत्समेन विवर्धनात् ।
पादोनसप्तहस्तान्तं पूर्ववन्नवलिङ्गकम् ॥ २२ ॥
अथवा हस्तमारभ्य सा(चा)र्धहस्तेन वर्धनात् ।
सार्धवेदकराष्टं(न्तं) स्यान्नवलिङ्गोदयं भवेत् ॥ २३ ॥
पादहस्तं समारभ्य पादहस्तेन वर्धनात् ।
पादाधिकद्विहस्तान्तः नवलिङ्गं तु पूर्ववत् ॥ २४ ॥
जातिच्छन्दं विकल्पं च आ(तु चा)भासं तु चतुर्विधम् ।
एकहस्तवशात्सर्वं कन्यसादि त्रयं त्रयम् ॥ २५ ॥