Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.13

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.13

Language
English

v3.c24.s53.13

वज्रलिङ्गमिति प्रोक्तं रत्नानि मि(इ)ति कथ्यते ।
एकं वा बहुरत्नं वा नवरत्नैश्च संयुतम् ॥ १५३ ॥
लिङ्गं यदुक्तं स्वर्णेन पीठे रत्नानि योजयेत् ।
अथवा केवलं स्वर्णं पीठं वा कारयेद् बुधः ॥ १५४ ॥
स्वर्णलिङ्गमिति प्रोक्तं लक्षणं पूर्ववद् भवेत् ।
आचार्यहस्तेन वा लिङ्गं शिष्यस्तु(स्य) नाहलिङ्ग(हातुल)वत् ॥ १५५ ॥
पश्चात्पूजां तथा कुर्यादाचार्योक्तोपदेशवत् ।
अथोक्तलिङ्गपूजायां(या) फलं वक्ष्ये यथाविधि ॥ १५६ ॥
नदीपर्वतलिङ्गानां कैलासारोहणं भवेत् ।
इहलोकस्य पूज्यत्वं भुक्तिमुक्तिफलप्रदम् ॥ १५७ ॥
रत्नलिङ्गस्य पूजायां फलं मुक्तिप्रदायकम् ।
स्वर्णलिङ्गार्चनमे(व्यै)वं फलं स्वर्गापवर्गकम् ॥ १५८ ॥
स्वर्णपीठं तु तल्लिङ्गं मुक्तावलिघ(घ)नमथापि वा विदुः ।
कर्तुमानसवशात्कल्पयेत्प्रशस्तमिह दोषवर्जितम् ॥ १५९ ॥
तोये वा मण्डले(ण्डूरे) वापि पुष्पे वा क(चो)त्पलेऽपि वा ।
सिकते वाथ हस्ते वा चाक्षतैर्वा गुलैस्तथा ॥ १६० ॥
मोदके वाथ पिष्टे वा गोमये वा यथेष्टकम् ।
सद्यः पूज्यं रचेल्लिङ्गं प्रोक्तं तत्क्षणिकं भवेत् ॥ १६१ ॥
तानि लिङ्गानि सर्वेषां यथालिङ्गाकृतिर्भवेत् ।
ध्यात्वा दण्डियका(कं) लिङ्गं मानं सर्वं न कारयेत् ॥ १६२ ॥
दीर्घे(दैर्घ्ये) लिङ्गमा(स्या)यादिषड्वर्गशुद्धिं कुर्यात्सर्ववोक्तवत् ।
मानलिङ्गे चान्यस्यायम्भुवादिमाने च युक्तं तवायादीनि सर्वं न कुर्यात् ॥ १६३ ॥
बन्धाष्टनन्दवसु नन्दयुगेन वृद्धा
चाष्टार्कपङ्क्तितुरगैर्मुनिभिर्वि(नेन्द)हन्यात् ।
योन्य(नय)श्च वृद्धि [व्य] म [व्य]यं च तु बारमंशम्
लिङ्गैकेन कुर्यात्तु परार्थतुङ्गे ॥ १६४ ॥
ध्वजधूमसिंहशुनकवृषगर्दभाश्च
दन्ती च काकश्च वसुयोनिः य(यै)वाक्रमेण ।

Linked texts (1)