Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.12

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.12

Language
English

v3.c24.s53.12

कुर्यादनेकलिङ्गेषु चैकलिङ्गं न कारयेत् ।
पीठतुङ्गं त्रिधा कृत्वा ए(चै)कांशं गलतुङ्गकम् ॥ १४३ ॥
अथवा पञ्चदशांशं वा गलतुङ्गं विशेषतः ।
शेषं तु चोर्ध्वाधो बन्धे पट्टजन्मसरोरुहम् ॥ १४० ॥
एकांशं जन्मतुङ्गं तु ए(चै)कभागैकं वेत्रकम् ।
तत्समं पङ्कजाग्रं स्यात्पद्मकुडिर्र्यंशांशकम् ॥ १४१ ॥
तदष्टांशैकवेत्रं स्यात्तत्समं चोर्ध्ववेत्रकम् ।
पूर्ववत्कर्णसंयुक्तमूर्ध्वखण्डमवञ्चकवत् ॥ १४२ ॥
सपादांशाधिकं हीने वा यन्मानोरम्यं मानयोः ।
पीठतारेादयं नालं दीर्घं प्रागुक्तवन्नयेत् ॥ १४३ ॥
वृत्ताकारं तु पीठं स्यादन्यथाकृति वर्जयेत् ।
पीठतुङ्गे तु गन्धं(रन्ध्रं) स्याल्लिङ्गनाहस्य सादृशम् ॥ १४४ ॥
लिङ्गतुङ्गविशेषे स्याद्वेशने तन्नयेद्बुधः ।
मानयेद्बहुलिङ्गे तु चैकानेकादि[लिङ्ग]कैः ॥ १४५ ॥
एतत्तु सर्वलिङ्गेषु चात्मार्थं च परार्थके ।
तन्मध्ये स्थापयल्लिङ्गमादौ रत्नानि विन्यसेत् ॥ १४६ ॥
लिङ्गस्य परितो रन्ध्रे स्वर्णयर्वावबन्धनम् ।
अभावे रजतेनैव ताम्रं चायसमेव च ॥ १४७ ॥
कारयेच्छिल्पिना सम्यग् लिङ्गपीठादृढैः(यैः) सह ।
एकानेकलिङ्गानां परार्थे त्वष्टबन्धनम् ॥ १४८ ॥
केचिद्दिबन्धनं कुर्याद् द्रव्यैश्च गुग्गुलादिभिः ।
रत्नलिङ्गेषु सर्वेषां व(स्व)र्णपीठं प्रकल्पयेत् ॥ १४६ ॥
अथवा रत्नपीठं वा रक्त(त्न)लिङ्गेषु पूर्ववत् ।
यद्यद्द्रव्येण लिङ्गं तत्तद्द्रव्येण पीठकम् ॥ १५० ॥
नवरत्नैश्च संयुक्तं स्वर्णपीठं प्रकल्पयेत् ।
यत्तद्रत्नैश्च यल्लिङ्गे तत्तन्नाम्नैव नामकम् ॥ १५१ ॥
पीठं(ठे) तु लिङ्गके वापि नवरत्नैर्विशेषतः ।
एकंकर्या चैकलिङ्गं बहुभिश्चैकलिङ्गकम् ॥ १५२॥