Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.4

Language
English

v3.c24.s53.4

षट्सप्ताष्टाङ्गुलं चैकलिङ्गत्तारमिति स्मृतम्।
नवपङ्किरुद्रमात्रं स्यात् समलिङ्गविशालकम् ॥ ४० ॥
भानूण(सै)काङ्गुलं चैव चतुर्दशाङ्गुलमेव च।
एवं तु चैकलिङ्गं स्याद्वि(ङ्गस्य वि)स्तारं परिकीर्तितम् ॥ ४१ ॥
पञ्चा(चा)दशाङ्गुलं चैव षोडशाङ्गुलमेव च।
विस्तार( ं) दशाङ्गुलं चैव लिङ्गानामिति विस्तृतम् ॥ ४२ ॥
अष्टादशाङ्गुलं चैव नवपङ्क्त्यङ्गुलान्तकम्।
विंशत्यङ्गुलं चैव लिङ्गतारं त्रिधा मतम् ॥ ४३ ॥
एकविंशत्यङ्गुलं चैव द्वाविंशतिकाङ्गुलम्।
त्रयोविंशाङ्गुलं चैव त्रिधा लिङ्गविशालकम् ॥ ४४ ॥
चतुर्विंशाङ्गुलं चैव पञ्चविंशाङ्गुलं तथा।
षड्विंशाङ्गुलं चैव विशालं त्रिविधं मतम् ॥ ४५ ॥
सप्तविंशाङ्गुलं चैव अ(चा)ष्टविंशाङ्गुलं तथा।
नवविंशतिमात्रं स्याल्लिङ्गत्तारमिति स्मृतम् ॥ ४६ ॥
अथवा त्रिंशदङ्गुल्यमेकत्रिंशतिमात्रकम्।
द्वात्रिंशाङ्गुलं चैव लिङ्गत्तारमिति स्मृतम् ॥ ४७ ॥
कन्यसाद्युत्तमान्तं स्यात्प्रत्येकं त्रित्रिमानकम्।
एवं तु नवधा लिङ्गं प्रत्येकं नागरादिभिः ॥ ४८ ॥
अथवा तुङ्गमानं तु चतुष्पञ्चषडंशकम्।
तत्तदंशीकभागेन चैकलिङ्गविशालकम् ॥ ४९ ॥
नागरं द्राविडं चैव वेसरं च त्रिधा मतम् ॥ ५० ॥
इष्टायामे ऽशसत्रिंशदंशम्
कृत्वा क्रमादधिकं तदंशकम्।
विस्तारं तत्कन्यसादि त्रिधा
युक्त्या धीमान् वेसरादीनि कुर्यात् ॥ ५१ ॥
बहुलिङ्गोदये सर्वे(र्वेस्मिन्) ब्रह्मभागं विनोदयम्।
द्विभागं समकन्यंस्याद्वि(न्यसं वि)ष्णुरुद्रांशं तत्समम् ॥ ५२ ॥