Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.3
- Language
- English
v3.c24.s53.3
छन्दादीनां तु मानं स्यात्षट्त्रिंशल्लिङ्गतुङ्गकम् ।
एकादशाङ्गुलमारभ्य द्विव्यङ्गुलविवर्धनात् ॥ २६ ॥
सप्तविंशाङ्गुलान्तं स्यान्नवधा लिङ्गतुङ्गकम् ।
द्वादशाङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥ २७ ॥
षष्ट्यङ्गुलानसाने स्यान्नवधा लिङ्गमानकम् ।
पञ्चविंशाङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥ २८ ॥
त्रिसप्ततित्रिमात्रान्तं नवधा लिङ्गतुङ्गकम् ।
सर्वेषां कन्यसं श्रेष्ठं पर्यन्ता(न्तम्)ङ्गुलमानकम् ॥ २६ ॥
यजमानस्य मेढ्रान्तं नाभ्यन्तं हृदयान्तकम् ।
स्तनान्तं बाहुसीमान्तं हन्वन्तं नासिकान्तकम् ॥ ३० ॥
नेत्रान्तं समतुङ्गं स्यान्नवविङ्गोद्भवं भवेत् ।
अथवा तुङ्गमाने तु नवभाग(गं) विभाजिते ॥ ३१ ॥
एकैकं लिङ्गतुङ्गं स्यात्कन्यसादि त्रयं त्रयम् ।
नवत्यंशविधं लिङ्गं यस्स(ज)मानवशाद्विदुः ॥ ३२ ॥
बहुधा स्नाप्यलिङ्गं वा नवलिङ्गं परिसंख्यया ।
अथ हस्ताद्य(दि)माने [च]सर्वलिङ्गेषु कल्पयेत् ॥ ३३ ॥
पञ्चादशाङ्गुलं माने यन्माने नवलिङ्गके ।
सप्ता(प्त)दशाङ्गुलान्तं च पञ्चा(ञ्च)दशाङ्गुलमारभेत् ॥ ३४ ॥
स्थापयेत्पञ्चलिङ्गे तु इ(चे)त्यूर्ध्वेन तु कारयेत् ।
तन्त्रिपादकरादूर्ध्वं चाधिकं सर्वतुङ्गके ॥ ३५ ॥
सर्वेषां चैकहर्म्यं तु ए(चै)कैकलिङ्गे तु संमतम् ।
बहुधा सर्वलिङ्गेषु तत्रिकर्गा न कारयेत् ॥ ३६ ॥
द्विकर्गा बहुलिङ्गे तु त्रिकर्गा चैकलिङ्गके ।
लिङ्गतुङ्गमिनि प्रोक्तं तद्विशाळमिहोच्यते ॥ ३७ ॥
त्रिचतुष्पञ्चाङ्गुलान्तं स्याद्वहुलिखे तु विस्तृत्तम् ।
अथवा तुङ्गमाने त्रिचतुष्पञ्चभागिकम् ॥ ३८ ॥
तत्तदेकांशविस्तारं बहुलिङ्गविशालकम् ।
नागरं द्राविडं चैव वेसरं च त्रिधा मतम् ॥ ३६ ॥