Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.6

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.6

Language
English

v3.c24.s53.6

दृष्ट्वा धारायत(यां) सहस्रावधा(सा)नम्
धारालिङ्गे चैवमुक्तं तन्त्रैः ॥ ६१ ॥
पञ्चषट्सुनिर(न्य)ष्टविस्तृते [च]
द्विद्विभाग(गं) शिर(रो) मानतुङ्गकम् ।
तत्तदङ्गुळततच्छिरो(र उ) दये
ह्यंशयुग्मधि(धा)रोपमानकम् ॥ ६२ ॥
वर्तिरुस्त(स्थ)मिव तच्छिखं बुधैः
युदार्धं(कुर्यात्तु) त्रिपुरुषा(रघा)कृतिस्तथा ।
अर्धचन्द्रमिति चित्रवद् भवेत्
शिल्पिभिः प्रवर(रैः) व(क) र्यंतः क्रमात् ॥ ६३ ॥
पूजांशो त्तत्तुङ्गमष्टद्वयांशम्
कृत्वांशेन द्वित्रिवेदाम्विसृज्य ।
तस्याप्यस्त्यङ्गचक्षोद्धारशेषम्
शिल्पिः(ल्पी) कुर्यान्नागरादिः(दीन्) त्रिधैव ॥ ६४ ॥
तत्तच्चैकार्धभागं मध्यभागम् (ने)
विस्तारं स्यान्नचक्षोद्धारखे च ।
असे चैकद्व्यंशत्रि(त्र्यं)शेन तुङ्गम्
तस्मात्पार्श्वे भूषयेत्पृष्ठकान्तम् ॥ ६५ ॥
कुर्यादेकां पिण्डिकां तंतु(तस्य) पार्श्वे
चैकद्वित्र्यंशकं चान्तरं च ।
पृष्ठे युक्त्या कारयेद् विष्णुकान्तम्
एवं युक्त्या नागरादिक्रमं स्यात् ॥ ६६ ॥
एकानेकलिङ्ग[स्य] धारणांशे
कुर्याल्लिङ्गे मूर्ध्निवत्कुङ्मलं वा ।
छत्राकारं वाथ मूर्ध्निप्रदेशे
युक्त्या धीमानुद्धरेद्व(द)धस्तात् ॥ ६७ ॥
लिङ्गादीनां (न्) स्थापयेत्सर्वहर्म्ये प्रागुक्तवत्क्रमात् ॥ ६८ ॥