Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.1
- Language
- English
v3.c24.s55.1
शक्तीनां चित्र(द्द्र)वर्णादिलक्षणं वक्ष्यतेऽधुना ।
सरस्वती च सावित्री लक्ष्मीश्च मही तथा ॥ १ ॥
मनोन्म(न उन्मादि)नी सप्तमातृश्च दुर्गां चैव यथाक्रमम् ।
पूर्वोक्तद्रव्यसर्वेषां(वैश्व) सर्वशक्ति प्रकारयेत् ॥ २ ॥
पद्मापीठोपरि स्वाप्य(पयित्वा) देवीं पद्मासनासनाम् ।
शुद्धस्फटिकसंकाशं मुक्ताभरणभूषणम् ॥ ३ ॥
चतुर्बाहुं द्विनेत्रं(त्रां) च केशबन्धं(न्धां) च मौलिनीम् ।
शुद्धश्वेतानुलोपेतां ग्राहकुण्डलभूषणाम् ॥ ४ ॥
ललाटे भ्रमरकं स्यान्मौक्तिका(क)पट्टमेव वा ।
कर्णपुष्पैश्च मौक्त्येन कर्णदामं(मभि)रलङ्कृतम् ॥ ५ ॥
हारोपग्रीवसंयुक्तं(क्तां) मुक्तात्नावली(लीं) तथा ।
कुचबन्धनसंयुक्ता बाहुमालाविभूषणी ॥ ६ ॥
केयूरकटकैर्युक्तं(क्तां) प्रकोष्ठावलयं(यां) तथा ।
मणिवन्धकटकं(कां) वा मौक्तिका(क) पौर(पूर) मेव च ॥ ७ ॥
मध्याङ्गुलं विना सर्वे मौलिक (मूलतो) रनाङ्गुलीयकैः ।
नीवीं च लम्बने चैव मौक्तिका (क) पट्टयुक्तिका ॥ ८ ॥
पादजालां भुजङ्गानां गुल्फस्योपरि भूषणम् ।
पादनूपुरसंयुक्तं(क्तां) पादरत्नाङ्गुलीयकैः ॥ ६ ॥
मौक्तिकोत्तरीयसंयुक्तां सर्वालङ्कारभूषणा(णी)म् ।
पुरतः सव्य(व्ये) संदर्शं पुस्तकं वामहस्तके ॥ १० ॥
दक्षिणे परहस्ते तु चाक्षमालावधारिणीम् ।
कुण्डिका वामहस्ते (स्ते) च धारयेत्तु सरस्वती ॥ ११ ॥
अथवा द्विभुजं कुर्यात्कुन्तलं मकुटं भवेत् ।
दक्षिणं वरदं हस्तं वामहस्ते च पद्मकम् ॥ १२ ॥
Linked texts (1)
- Mānasāra — Sanskrit