Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.2
- Language
- English
v3.c24.s55.2
करण्डमकुटं वापि हेमवर्णाङ्गशोभितम् ।
पीताम्बरं वस्त्रारत्नं मुक्ताभरणमेव च ॥ १३ ॥
कर्णयोः स्वर्णताटङ्क सूत्रयुक्तं (क्तां) सुमङ्गलाम् ।
द्विनेत्रीं प्रसन्नवदनां सर्वाभरणभूषणीम् ॥ १४ ॥
पितामहस्य पार्श्वे तु स्थानकं चासनं तु वा ।
वामभागे तु सावित्रीं श्वेतरक्त (क्ता) मथापि वा ॥ १५ ॥
श्यामाङ्गवर्णामेवं वा द्विभुजं च द्विनेत्रकम् ।
स्थानकं चासनं वापि करण्डमकुटान्वितम् ॥ १६ ॥
अथवा केशबन्धं वा कर्णे मकरकुण्डलम् ।
दुकूलाम्बरधरं वापि पीताम्बरमथापि वा ॥ १७ ॥
सर्वाभरणसंयुक्तां वरदं वामहस्तके ।
दक्षिणे चोत्पलं कुर्याच्छेषं प्रागुक्तवन्नयेत् ॥ १८ ॥
सरस्वतीं च सावित्रीं दशतालेन कारयेत् ।
रक्ताब्जं पीठतस्योर्ध्वे देवी पद्मासना भवेत् ॥ १९ ॥
चतुर्भुजं त्रिनेत्रं च मकुटं कुन्तलं भवेत् ।
प्रसन्नवदनां देवीं शुद्धकाञ्चनसन्निभाम् ॥ २० ॥
पीताम्बरधरां रक्तां [मं] शुकपेताम् (भरथीम्) ।
विशालाक्षममायतं कुर्यादपाङ्गकोणे सिताननाम् ॥ २१ ॥
दक्षिणे त्वभयं पूर्वं डिण्डिमं वामहस्तके ।
अपरे दक्षिणे पद्मं चाक्षमालामथापि वा ॥ २२ ॥
वामे नीलोत्पलं वापि रक्तपद्मां (द्ममु) धृतं तु वा ।
पीनोन्नतस्तनतटां फाले भ्रमरकान्विताम् ॥ २३ ॥
अथवा रत्नपट्टं स्यात्स्वर्णताटङ्क कर्णयोः ।
मकरं कुण्डलं वापि कर्णयोः स्वर्णदामयुक् ॥ २४ ॥
हारोपग्रीवसंयुक्तां ससुत्रैश्च सुमङ्गलीम् ।
कुचतटैश्च केकै (रखै) श्च हेमपट्टविभूषितीम् ॥ २५ ॥
रत्नानि चन्द्र(छन्न) वीरं स्यात्स्वर्णरत्नोत्तरीययुक् ।
केयूरकटकस्वर्णरत्नपूरिमसंयुत(ता)म् ॥ २६ ॥
Linked texts (1)
- Sarasvatī — Sanskrit